पृष्ठम्:भावप्रकाशिका-भागः २.pdf/७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (दहराधिकरणम् १-३-५) ४९९ लोकत्व' मिति दर्शितनिति योजना । उपलक्षष्यतयेति । अन्तरिक्षशब्दमुख्यार्थ स्वीकारे पक्षयेऽपि व्यवधानमवशिष्टम् ! यदि च व्यवधानपरिहारायान्तरिक्ष शब्दस्य चतुर्मुखलोकाधस्तनलोकमात्रोपलक्षकत्वमाश्रित्य व्यवधानपरिहार , तर्हि अन्तरिक्षशब्दस्यमुष्मिकलोकमात्रोपलक्षकत्वमाश्रित्य व्यवधानपरिहारः समनि इति भावः । सङ्काहकलाभ इति । यद्यपि भूलोकब्रक्षलोकमध्यवर्तित्वरूपं सङ्गट्कं सुवचम् - तथाऽपि तस्य साहकस्य गुरुत्वेन न सुलभप्रतिपत्तिकत्वमिति भाव । फ़लवचनविरोधः फलवाक्यस्यपुरुषशब्दविरोध इत्यर्थः । इति ईक्षतिकर्माधिकरणम् (४) दहराधिकरणम् (५ दहर उत्तरेभ्य: १-३-१३

  • अथ यदिदमसिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर

आकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यम् ; तद्वाव विजिज्ञासितव्यमिति । तं चेद्ब्रूयु थैदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः किं तदन्न बिद्यते, यदन्वेष्टव्यम्, यद्वान विजिज्ञसितव्यमिति । स ब्रूयात्, यावान् वा अयमाकाशस्तावानेषेोऽन्तहृदय आकाश । उभे अस्मिन् द्यावापृथिवी अन्तरेवं समाहिते । उभावमिश्च वायुश्च सूर्याचन्द्रमसावुभौ, विद्युन्नक्षत्राणि । यश्चास्येहास्ति यच नास्ति सर्वं तदस्मिन् समाहितमिति । तं चेद्ब्रूयुः असिश्चेदिदं ब्रह्मपुरे सर्व समाहितं सर्वाणि च भूतानि सर्वे च कामा , यदेज्जरामप्नोतेि प्रध्वंसते. व किं ततोऽतिशिष्यत इतेि । स क्रूयान्नास्य जयैतञ्जीयेतेि न वधेनास्य हन्यते, एतत्सत्यं ब्रह्मपुरम् । अस्मिन् काम समाहिताः । एष आत्मा अपहतपाप्मा वेिजरो विमृत्युर्विशोको विजिघत्सोऽपिषासस्सत्यकामस्सत्यसङ्कल्प । यथा ' होवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकाम भवन्ति यं जनपदं यं क्षेत्रभागं तमेवोपजीवन्ति । तत् यथेह कर्मचितो लोकः क्षीयते, एवमेवमुत्र पुण्यचितो लोकः क्षीयते । तद्य इहात्मानमननुविध व्रजन्त्येतांश्च सत्यान् कामान्, तेषां सर्वेषु