पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ श्रीरङ्गरामानुजमुनिविरचिता पूर्ववाक्यस्थमहत्त्वविभुवाहेितुरित्यर्थः । ब्रह्मणः प्रकृत्वे विवादाभवेन लिङ्गेन तस्यासमर्थनीयत्वात् सूत्रभाष्यगतप्रकरणशब्दस्वारस्याघ । एकपकरणत्वं कथ मितीति । यद्यपि महान्तं विभुमित्यादौ ब्रह्म प्रकृतम्; न प्रकृतं च हातुं योग्यम् अथापि ' न जायते म्रियते ? इत्यादौ जीवस्यापि प्रकृतत्वात् ब्रह्मण एव आहणे न प्रमाणं पश्याम इति भावः । परस्य स्थितिरितेि जिज्ञास्य इति । सामान्यतः शरीराधारत्वं जानना शिष्येण शरीरे प्रदेशविशेष: पृच्छयत इत्यर्थः । १० ॥ प्रकरणविच्छेदं दर्शयतीति । 'ऋतं पिबन्ौ' इति वाक्यस्य परमात्मप्रकरणविच्छेदं दर्शयतीत्यर्थः । यस्य ब्रह्म चेत्यादिवाक्यापेक्षयेति । ऋतपानलिङ्गबलात् ऋतं पिबन्तविति वाक्ये यस्य ब्रह्मचेत्यस्य पश्चात्पतेि परमात्मपकरणविच्छेदेऽपि नातुः परमात्मत्वहानिः । यस्य ब्रह्म चेत्यादिवाक्यस्य महान्तं विभुमित्यादिना एकप्रकरणतया, ऋतं पिबन्तावित्यनेन एव प्रकरणत्वाभावादिति शङ्काभिप्रायः । व्यवहितत्वात् विच्छेदो युक्त इति । ननु महान्तं भुिमित्यत्रापि अव्यवधानमस्ति । एवं हि पाठक्रमः । 'महान्तं विभुमाःानं मत्वा धीरो न शोचति", नायमात्मा प्रयत्नेन लभ्यो न मेवया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनू स्वाम्', ' नविरतो दुश्चरितान्नाशान्तो नासमा हित । नाशान्तमानसो वापि ज्ञानेनैनमाप्नुयात् , 'यस्य ब्रह्म च क्षलं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ', 'ऋतं पिबन्तौ सुकृतस्य लोके ' इति । ततश्चाव्यबधानं द्वयोरप्यविशिष्टम् । तत्र च प्रकरिष्यमाणपरामर्शलोभेन प्रकृतहानमयुक्तम् । प्रकृतप्रत्यभिज्ञापकं दुधिगमत्वलिङ्गं च वर्तते । अतः कथम्, ऋतं पिबन्ताविति खण्डान्रस्वोत्तरवाक्यैकप्रकाणवलोभेन प्रकृतैकवाक्यत्व परित्याग इति शङ्केति चेत्-उच्यते, प्रकरणचेति सूत्रे प्रकरणशव्देन परमामति पादकाश्यसन्दर्भमध्यगतत्वं विवक्षितम् । तदिह 'गुहां प्रविष्टा । बिति सूत्रे आक्षिप्य समाधीयत इत्यनवद्यम् । यद्यपीमौ शङ्कापरिहारौ, 'तदेकप्रकरणत्वात् पूर्वमस्तु तोऽतपि स एव भवितुमर्हती' ति भाप्यभिप्रेतै, तत्रैव क्व्यौ च-तथाप्यनन्तर िितपदस्यैकप्रकरणत्वोपपादकत्वादिहोक्ताविित द्रष्टव्यम् । समप्राधान्यशङ्का परिहार्थमिनि । तथा हि सति परमात्मनः प्रतिपाद्यत्नशङ्कापिं स्यादिति मावः ।