पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (दहराधिकरणम् १-३-५) ५०१ न द्यावापृथिव्यादिनाशप्रसङ्ग इति हि तस्याभिप्रायः । 'सत्यकामस्सत्यसङ्कल्पः । अतिथकामः अवितथसङ्कल्प इत्यर्थः । कामसङ्कल्पयोश्च हेतुहेतुमद्भावान्न पौनरुक्त्यम्। स्वामिनं मन्यमानास्तस्य स्वामिनो यथायथाऽनुशासनम्, तथातथान्याविशन्ति अनुवर्तन्ते ; स्वाभिमतार्थोश्च लभन्ते – एवं पुण्यकृतोऽपि पश्शासनानुवर्तनेन तत्फल : भाजो भवन्तीत्यभिप्रेतार्थः, राजसेवार्जितफलस्येव पुण्यर्जितफलस्यापि क्षत्विमाह तथेहेत्यादिना । शिष्ट स्पष्टम् । पुरिशयस्येति । यद्यपि छान्दोग्ये , 'अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ' इतेि ब्रह्मपुरे विद्यमानत्वमात्रं श्रूयते; न शयनम् – तथापि समानप्रकरणे वाजसनेयके * य एषोऽन्तर्हदय आकाशस्तस्मिन् शेत इति ज्ञायनश्रवणा दत्रापि पुरिशयत्वं फलितमिति द्रष्टव्यम् । आशशब्दवाच्यस्यापरमात्मत्वं निरस्यत इति । पुरिशयस्याकाशशब्दवाच्यत्वग्रयुक्तमपरमात्मत्वं निरस्थत इत्यर्थः । ब्रह्मलोकशब्दब्रह्मपुरशब्दयोरितेि । 'एतं ब्रह्मलोकं न बिन्दन्,ि ' एतत्सत्यं ब्रह्मापुरम् ? इति शब्दयोरित्यर्थ । प्रसिद्धान्तरिक्षेति । परमात्मस्थानाधस्तन लोकपरत्वसमर्थनादिति भावः । तक्षरमिति । अप्रसिद्धार्थकल्पकत्वरूपप्रत्यासते स्रयाणां तुल्यत्वेऽपि अन्तरिक्षशब्दाप्रसिद्धार्थकल्पक्रेक्षतिकमधिकरणापेक्षया आका शब्दाप्रसिद्धार्थप्रकल्पकत्वेनाक्षरदहराधिकरणयो प्रत्यासत्यतेिशयदेित्यर्थ । सङ्गत्यतिशयादिति । ननु आकाशवाचिशब्दस्य प्रसिद्धार्थातिरिक्तार्थकत्वसमर्थन परत्वं त्रयाणां साधारणधर्मः । अक्षदहराधिकरणयोराकाशशब्दस्य प्रसिद्धार्थ समर्थनपरत्वं साधारणो धर्मः । अक्षरेक्षतिकर्माधिकरणयोः आकाशवाचिशब्दस्य प्रसिद्धार्थातिरिक्तार्थकत्वसमर्थनमुखेन विप्रतिपन्नस्य [ उपरितन वाक्यस्थपदार्थस्य ?] परमात्मत्वसमर्थकत्वं । साधारणो धर्म ; अन्तरिक्षशब्दस्यापि आकाशवाि शब्दत्वात् । तथा च मित्र विनेिगमकमिति चेत् - यदि न वैषम्यमित्यभि मानः, तदाऽक्षराधिकरणे अदृष्ट दृष्ट्रियदृष्टत्वश्रवणात् ईक्षतिकर्मत्वं न संभवती त्याक्षेपसङ्गतेरप्यधिकायास्सत्वात् ईक्षतिक्रमधिकरणस्याक्षराधिकरणानन्तर्य युज्यन इति सन्तोष्टव्यमायुष्मता । कचित्परमात्मपरत्वमिति । 'आकाशदेव समुत्पद्यन्त