पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता इत्यादावित्यर्थः । वाक्यद्वारकमिति । उक्तरेभ्य इत्यस्य उत्तरवाक्यगतेभ्य इत्यर्थ इति भावः । पञ्चमीस्फुटीकरणायेति । ततश्च ' हेतुभ्य' इत्येतत्पदम्, 'उत्तरेभ्य इत्यत्रत्यविभक्तार्थस्फोरमिति भावः । पृष्टीनियम इति । ' ष्ठी हेतुप्रयोगे, सर्वनामस्तृतीया चे ? ति उत्तरशब्दस्य सर्वनामत्वात् षष्ठी वा तृतीया वा स्यात् । न तु पञ्चभीत्याक्षेपाभिप्रायः, इदं च 'निमित्तकारणहेत्वर्थेषु सर्वास प्रायदर्शनम् इति वार्तिकानादरेणोक्तमितेि द्रष्टव्यः । प्रयोजनतयेति । ननु वृत्यादिग्रन्थेष्वेवमव्या स्यात्वत्, विद्याया हेतोश इत्यादौ विद्याया यशःप्रयोजकत्वाभावेन षष्ठयनुपपत्ति प्रसङ्गाच नेदं समञ्जसमिति चेत्र-शाब्दिक अन्येषु अत्रस्य हेतोर्टसतीत्यादेरेवोदा हृनत्वात् विद्याया हेतोयैश इत्यादिश्योगस्यासंप्रतिपन्नात्वत्, * षष्ठी हेतुप्रयोग ' इत्यस्य प्रयोजनतया हेतुबविषयत्वाभावे हेताविति सूत्रस्य निर्विषयत्वप्रसङ्गाश्च । न च हेतुशब्दप्रयोगविषयं ' षष्ठी हेतुप्रयोग ' इतिं सूत्रमिति वाच्यम् हेतुशब्दप्रयोगे. हेतौ द्योत्ये वा इति कौमुद्यामुक्तत्वात्, तस्याश्च संप्रतिपन्नत्वात् न काचिदनु पपत्तिरिति केचिद्वदन्ति । ननु जीवव्यावृत्तेः प्रस्तोष्यमाणत्वेन भूनाकाशव्यावृत्तेरेव प्रस्तुतशत् आत्मस्वभालेण च भूताकाशव्यावृत्तिसिद्धेः निरुपाधिकत्वकीर्तनं मुधेत्य स्वसादाह--यद्वाकाशस्यापीति । यतःशरीरतिसम्बन्धीति । स्त इत्यस्य प्रयोग इत्यनेनन्वयः, स्वतः प्रयोगो मुख्यप्रयोग इत्यर्थः । भाग्ये - अथ य इहात्मानमित्यादि । 'अथ य इहात्मानमनुविद्य ब्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतेि, स यदि पितृलेोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति तेन पितृलोकन संपन्नो महीयते’, एवमेव भातृलोकभ्रातृलोकस्व सृलोकसविलोकान्धमाल्लोकान्नपागलोकगीतवादिदेवलोकस्रीलोकपर्याया द्रष्टव्याः । अनन्तरम्, ' यं यमन्तमभिकामो भवति, य यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति, तेन सम्पन्नो महीयते ? इति श्रयते । इत्येवं श्रुतिक्रमो द्रष्टव्यः । एकस्येवेति । अतः एव श्येनेनाभिचरन् यजेतेत्यत्र गुणििवपक्षे ' यथा वै श्येनो निपत्यादत्त ! इति वाक्यशेषे निबध्यमानं येनस्य श्येनसद्भश्यं ना:वेतीति नामत्वमश्रितमिति भाव । हृदयादन्नच्छेति । उपमानोपमेयथोरभेदेऽपि उप मानतावच्छेदकोपमेयतावच्छेदकभेदसत्वे उपमा संभवत्येव । अत एव.