पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाव अक् शिका (१६राधिकरणम् १-३-५) मन्तरेण गुणध्यानासम्भवात् गुणिध्यानस्यावश्यकत्वम्, तर्भाक्षेपादेव तदुपासनस्यापि सिद्धतया नालानुपपत्तिरिति चेन्न -“ आक्षेप्तः प्राप्तादभिधानिकस्य अह्यत्वम्” इति न्यायेन गुणिनोऽपि ध्येयत्वस्याभिधानिकत्वसंभचे तत्परित्यागायोगात् । 'य इहात्मान मनुविद्य ब्रजन्त्येतांश्च सत्यान् कामान्' इति फलनिर्देशवाक्ये गुणांशे अभिधानः प्राप्तनुवादः, गुण्यंशे आक्षेपतः प्राप्तानुवाद इति वैरूप्यश्रयणस्याप (प्य) न्यायवाच । अर्थसिद्धं स्यादिति। गुणानां गुण्यन्तभूतत्वेन गुणिध्याने विहिते गुणध्यानं विहिते स्यादित्यर्थः । नत्व क्षेपलभ्यं स्यादित्यर्थ इति भ्रमितव्यम्; तथात्वे गुणानां ध्येयत्वे कथितेऽपि गुणिध्यानस्याक्षेपलभ्यत्वसंभवेन 'न तु गुणानां ध्येयत्वे कथेित' इत्युत्तर वाक्यसामञ्जस्यप्रसङ्गात्, गुणध्याने विहिते गुणिध्थानाक्षेपस्य, 'तेन विना गुण ध्यानायोगा' दिति पूर्वग्रन्थे अङ्गीकृतत्वाचेति द्रष्टव्यम् । अन्वेष्टव्यमिति पदं गुणिपरमिति । दहराकाशान्तर्वर्तिगुपिरमित्यर्थः । ततश्च दहराकाशो भूताकाश एव, न तु परमात्मेति भावः । अनूद्येत्यन्तेनेति । ननु दहरं पुण्डरीकं वेश्मेति एतावता पुण्डरीकवेश्मनो ब्रह्मपुराश्यशरीराधारकत्वे प्रतिपादितेऽपि आकाशस्य हृदयपुण्डरीकाधारकत्वस्याप्रतिपादनात् कथं वेशभेत्यनूद्देवत्यन्तेन परमतनिरासः, न च -- * दहरोऽस्मिन्नन्तर आकांश ! इत्येतावत्पर्यन्तं ग्रन्थसन्दर्भऽपि तत्र विवक्षितः, ततश्चाकाशे पुण्डरीकाधारकत्वस्यापि प्रतिपादितत्वादनूदितस्य तस्मिन्य दन्तरित्यनुवादो व्यर्थ इति परमतदृषणाचकत्वमुपपद्यत इति वाध्यम्--तथा सति यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्मेत्यनूद्ये' ित भाष्यस्य दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर. आकाश इत्येतावत्पर्यन्तग्रन्थसन्दर्भार्थकथनपत्वाश्रयणे,

  • तस्मिन् दहपुण्डरीकवेश्मनी ' स्युत्रभाष्यस्य दहरोऽस्मिन्नन्तर आकाश इति

चाक्यार्थकथनपरवं न स्यात्, पूर्वमेतद्वाक्यार्थस्यापि उपन्यस्तत्वात् । ततश्च तमिन्यदन्तरिति । वाक्यार्थकथनपरत्वमेव स्याच । न चेष्ठापत्तिः, तस्मिन्यदन्तरिति तच्छब्दस्य परमतवथ्वहितपुण्डरीकपरत्वाभावात् , 'दहरोऽस्मिन्निति वाक्यं व्याचष्ट इति उतरल ग्रन्थकृतैव वक्ष्यमluत्वाचेति चेत्-सत्यम्; अथापि अनूद्देवत्येतदनूदिः तस्यार्थस्य पुनरनुवादे प्रयोजनं नास्तीत्यर्थसूचकमित्यत्र तात्पर्यम् । अनूद्येत्यादि नेति पाठस्तु सुगम एव । वैयथ स्यादिति । न च तस्मिन्यदन्तरित्यनुवादस्य तदन्तर्वर्तिकामविशिष्टतया अवेष्टव्यत्वसिद्धिः प्रयोजनमिति वाच्यम् - पुनरनुवादेन 64