पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ श्रीरङ्गरामानुजमुनिविरचिता तादृशप्रयोजनसिद्धौ प्रमाणाभावात्। व्यवहेितेति । सर्वनाझामव्यवहितपरत्वसंभवे व्यवहेितपरत्वकल्पनाया अन्याय्यत्वात् । अत एव साकमेधे, 'एतद्राह्मण एककपाल: इत्यत्र एतत्पदमव्यवहितवारुणप्रघासिकैककपालपरामर्श, न तु व्यवहितमैश्वदेविकै ककपालपरामशींति सप्तमे (७-१-५.) स्थितम् । “गौश्चाश्वश्चाश्वनरश्च गर्दभश्धाजाश्वा वयश्च तिलश्च माषाश्च तस्य द्वादशशतं दक्षिणा"इत्यत्र (१० ३.११.) तु माषद्वादश शतमात्रस्याऽऽनतिकत्वासंभवात् बहुवचनान्तानां मांषाणां तस्येत्येकवचनेन परामर्शस्या युक्तत्वाचाप्यवहितमाषाणां परामर्श अनुपपतिसत्त्वात् व्यवहितगवपरामशित्वम् । न चेह तथा बाधकमस्तीति भावः । परमात्मन इति । “परमात्मनोऽन्ततिं तत्कारणं सूक्ष्म किमपि न संभवतीतेि 'किं तदत्र वेिद्य ' इति वाक्येनक्षिप्य द्यावापृथिव्यादि कार्यस्य तदन्तर्वर्तितया समाधानमिति हेि परैर्वण्यत' इति पाटो बहुषु कोशे पूपलभ्यते । अस्य ग्रन्थस्य च- सर्वकारणान्तर्वर्ति कारणं न संभवतीत्याक्षेपाभि प्रायः । सकलकारणभूते परमात्मनि कारणान्तरस्यासंभवेऽपि द्यावापृथिव्यादिकार्य संभवात् न दोष इति संभोधानाभिप्राय इति पैर्वथैत इत्यर्थो झटिति प्रतीयते | परैश्च नैवमाक्षेपसमाधानप्रकारौ बर्णितैौ । अपि तु दहरपुण्डरीकमेव तावत् सूक्ष्मतरम्; तदवरुद्धमाकाशं ततोऽपि सूक्ष्मतमम्; तस्मिंश्च सूक्ष्मतमे आकाशे किमपि मातुं न शक्रोतीति किमन्वेष्टव्यं स्यादित्याक्षेपाभिप्राय । दहराकाशस्य बाह्याकाशयत्। विपुलत्वेन सूक्ष्मंतनत्वनेिवन्धनानुपपत्त्यभावात् तत्र द्यावापृथिव्यादिसर्वविधभोग्य जातसमवधानं तदन्वेष्टव्यत्वं च सम्भवतीति समाधानाभिप्राय इत्येवोक्तम् । न तूक्तप्रकारेण । तस्मात् पुरोवादिवाक्यानुसारेणानुवादिवाक्यार्थस्य वर्णनीयत्वात्। अस्यापि ग्रन्थस्य स एवार्थः । 'परमात्मनोऽन्तर्वर्तिनः कस्याप्यभावा ! दित्युपरि तनानुवादस्याप्ययमेवार्थः । पुलिङ्गयच्छब्दाध्याहारेणेति । तस्मिन् यदन्तरिति वाक्य इति शेषः; न तु दहरोऽस्मिन्निति वाक्ये । तस्मिन्वाक्ये यच्छब्दाध्या हारे दहरोऽस्मिन्नित्यादेरेकवाक्यत्वप्रसङ्गात् । यत्पद्घटितवाक्यस्य तत्पद्धटिं बाक्येनैकवाक्यतावश्यंभावात् । न चेष्टापतिः, उत्तरपक्ष एवं एकवाक्यत्वाश्रयणस्य वक्ष्यमाणत्वादिति द्रष्टव्यम् । केचितू –“दहरोऽस्मिन्नन्तर आकाश ' इत्यत्रैव यच्छब्दाध्याहारः, दहरोऽसिन्नित्यादेरेकवाक्यता च पक्षद्वयेप्यवशिटैव । पुलुिङ्ग यच्छब्दाध्याहारानध्याहाराभ्यामेव वैषम्यमित्यप्याहः । अत्र पक्षद्वयेऽपि वशव्दा