पृष्ठम्:भावप्रकाशिका-भागः २.pdf/८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (दद्दराधिकरणम् १-३-५) ५०९ कथं दहराकाशापेक्षया ब्रह्मपुरशब्दितशरीरस्य व्यवहितत्वमभ्युपगम्याक्षेपसमाधानयोः प्रवृत्तिरिति चेत् - ' अस्मिश्चेदिदं समाहित' मेितेि सर्वशब्देन दहशकाशस्यपि -- १५ भोग्यभोगोपकरणादि प्रतिपाद्यत' इति उत्तरग्रन्थविरोधः, तस्य दहरक्राशेपलक्षण त्वेनादोषात् । अत आकाशशब्दस्य ब्रह्मयुरपेक्षया अव्यवहितत्वमस्तोतेि ग्रन्थकृदा शयः । यद्वा * अस्मिश्चेदिदं ब्रह्मापुर ' इतेि सन्निहेितत्रह्मपुरशब्दस्य तत्म्यदहर काशलक्षकत्वमभिमेत्य एतदुक्तमिति द्रष्टव्यम् । न चास्मिन् पक्षे अव्यवतिब्रह्मपुर शब्देन शरीरस्याप्रकृततया न प्रकृतं शरीरमित्यभिप्राय इति उत्तरग्रन्थविरोध इति वाच्यम्, लक्ष्योपस्थितिद्वारतया मुख्यार्थस्यापि प्रकृतत्वादिति भावः । सत्यत्वस्य वक्ष्यमाणत्वादिति । यद्यपि सत्यत्वस्य वक्ष्यमाणत्वं न प्राक्तनमाक्षेपं प्रतिमाति, तथाऽप्यभ्युचयोक्तितयोपन्यस्तमिति द्रष्टव्यम् । ननु सर्वशब्दसङ्कोचेनेति । 'थथा सर्वेभ्यः कामेभ्यो ज्योतिष्टोमः ! ।

  • सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ ! इत्यत्र “सर्वत्वमधिकारिकम् ' (१-२-१६) इति

अर्थवादाधिकरणसूत्रोक्तन्यायेन 'सर्वेभ्यःकामेभ्य ! इत्यस्य वेदप्रतिपाद्यकृतपशुपुत्र वृष्टयन्नपानादिपस्त्वमेव, न त्वकृताकाशगाम्यमरकन्यालाभादिपरत्वमपि । सर्वनाम्नां प्रकृतपरामर्शित्वस्वारस्यात् । तथात्रापि सर्वकामशब्दस्य , * स यदि पितृलोककामो भवती ' त्यादिना वर्णयिष्यमाणपितृमातृगन्धमाल्यनृत्तगीतवनितादिपरामर्शित्वमेवो चित्रम्, न तु सर्वविधभोग्यतापरत्वम्, कामशब्दस्य भोग्यतापरत्वे अस्वारस्यादिति शङ्काभिप्रायः । प्रथमश्रुतेति । न च प्रथमश्रुतस्य सङ्कोचप्रसङ्गेन चरमश्रुतकामंशब्दस्य मुख्यार्थपरिग्रहे 'सर्वे ब्राह्मणास्समागता ' इत्यत्र प्रथमश्रुतसर्वशब्दासंकोचाय ब्राह्मणशब्दस्य शूद्रपरत्वमपि स्यादिति वाच्यम्--ब्राह्मणशब्दवत् कामशब्दस्य जीव भोग्यगन्धमाल्यादिभाले रूढत्वाभावात् । इयांस्तु विशेषः । यजीवभोऽयगन्धमाल्या दिषु कामशब्दस्यात्यन्तप्रसिद्धिः ; भोग्यतयां तु प्रसिद्धिमात्रम् नात्यन्तमसिद्धिरिति । अतो न कश्चिद्दोष । वक्ष्यमाणत्वा [स्या?]नुगुणत्वाचेति । 'सर्वेषु लोकेषु कामचारो भवतीति उपासनफलस्य यन्निरतिशयत्वं वक्ष्यति, तस्यानुगुणत्वाचेत्यर्थः । अर्थसिद्धमाकारमाहेति । ननु 'एतत्सत्यं ब्रह्मपुरमि ' ति वाक्यश्रवणात् प्रागेव,