पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता नाय जरयैतजीर्यति, न वधेनास्य हन्यत' इत्येतावन्मालश्रवणात् परमकारणतयाति सूक्ष्मत्वं कथमर्थसिद्धं स्यादिति चेत् - अत्र केत् ि - भाष्ये, एतत्सत्यं ब्रहेत्यन्तस्य श्रुतिवाक्यस्य निर्चिकारत्वमुक्त्यन्तेन भःण्येण व्याख्यानम् । तत एवेत्याद्यत्तर सन्दर्भणं तु श्रुतिवाक्थस्थपुरशब्दस्यैव व्याख्यानम् । एवं च ब्रह्मशब्देन तलक्षणी भूतजगज्जन्मदिहेतुत्वस्य सूचनसंभवात्, सत्वशब्देन निर्विकारत्वस्य कण्ठोक्तत्वाच ननुपपत्तिः । इरथ 'नास्य जरयैजीर्यति, न वधेनास्य हन्यते ) इत्यनेनैव निर्विकारत्वसिद्धौ पुनरपि, एतत्सत्यमिति सत्यशब्देन निर्विकारत्वप्रतिपादनं बेिफलमेव स्यात् । किञ्च तत एवेति भाष्ये निर्विकारत्वस्यैव सत्यशब्दार्थीभूतत् [भूत ?] निर्विकारत्वहेतुत्वेन परमशः साध्याबिशेषश्च दुर्वार । न च सत्यशब्दस्य निर्वि कारत्वबलपातसततैकरूपत्वमर्थः, अतो न सत्यशब्दवैफल्यम्, न बा साध्याविशेष इति शङ्कयम् –“श्रुतिवाक्यस्थसत्यशब्दस्य निर्विकारत्वमर्थ इति भाव ? इत्युत्तर ग्रन्थविरोधात् । तस्मादुतैव सरणेिरनुसरणीयेति वदन्ति । सत्यशब्दसामानाधि करण्थादिति । ततश्च अथ यदिदं ब्रह्मपुरमित्याद्यभ्यस्तब्रह्मपुरशब्दार्थवैरूप्यमपि सोढव्यमिति भावः । । अस्मिन्कामा इति तु प्रथमचोद्यप्रतिवचनभिति । अत्र केचित्, 'यचास्येहास्ति यचनास्ती ! यत्र 'किं तदत्र विद्यते । इति प्रश्नस्य प्रतिवचनम् । तदेव, 'अमिश्रेदिदं ब्रह्मपुरे सर्वे समाहितं सर्वाणि च भूतानेि सर्वे च कामाः । इत्यनुभाषणवाक्ये कामशब्देनांनूद्यते । तदेव च, 'एतत्सत्यं ब्रह्मपुरं अस्मिन् काम समाहिताः य इहात्मानमनुवेिद्य ब्रजन्त्येतांश्च सत्यान् कामान्, त. इमे सत्याः कामः ? इति कामशब्देनापेि परामृश्यते । कामशब्दानां प्रत्यभि ज्ञायमानत्वात् । अपहतपाप्मत्वादीनामन्यविशेषणतथा प्रतीयमानानाम् , “एतांश्च सत्यान् कामान्ति एतच्छब्देन परामर्शस्य लिष्टत्वाचेति –तदयुक्तम् । कामशब्द प्रत्यभिज्ञामात्रेण ऐक्याभ्युपगमे ब्रह्मपुरशब्दप्रत्यभिज्ञाबलेन, ' अथ यदिदमस्मिन् ब्रह्मपुरे', 'एतत्सत्यं ब्रह्मपुर 'मित्यनयोरप्यैकस्थापत्या सारूप्यमात्रस्याप्रयोजकत्वात् । अन्यविशेषणतया प्रतीतानामपहतपाप्मत्वादीनाम् “एतांश्च सत्यान् कामा' निर्ति एतच्छब्देन परमशों न संभवतीत्यप्ययुक्तम् । । अस्मिन् कामास्समाहिता ' इति प्राधान्येन निर्दिष्टानामेव, 'एांश्च सत्यान् कामा' निति परामर्शसंभवात् । न च, अंस्मिन्कामास्समाहिता' इत्यत्रापि, 'सर्वे च कामा' इत्यनुभाषणवाक्यमत्यभि