पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिोका (दहराधिकरणम् १-३-५) ज्ञान द्यावापृथिव्यादय एोच्यन्ते, न स्वपहतपाप्मत्वादय इति शङ्कयम् , तथात्वे अपहतपाप्मे' त्यादिसन्दर्भस्य वैयर्थप्रसङ्गात् । तत्र ,ि अपहतपाप्मत्वादिमत्वात् कामसमाधानाधात्वं संभवतीत्युक्तिभङ्गया अपहतपाप्मवादिषु. कामशब्दार्थसमर्पण परत्व एव । सार्थक्यम् । इतथा स्वरूपनिर्देशमात्रस्यानतिप्रयोजनत्वादिति न कश्चिद्दोषः । अव्यवहितैतत्सत्यमिति । अत्र , “rतत्सत्यं ब्रह्मपुर ! भित्येतावतो: ऽप्यनुकरणशब्दतथा सुब्लोपाभावः | अवयवशात येत्यर्थ इति भाष्ये – अवयव शक्तया निर्दिश्येत्येवं शेषः पूरणीय इति भाव । सत्यसङ्कल्पशब्देनापि सिद्धत्वादिति । न च, 'कामस्सङ्कल्पो विचिकित्सा'इत्यादाविव कामसङ्कल्पयोभेद निर्देशस्य सार्थक्यमिति वाच्यम् --तथाऽपि फलत एकत्वेनानतिप्रयोजनत्वात् । कतिपयगुणान्तराणां पृथगुक्तत्वादिति । यद्यपि पृथगुत्तेष्वेव गुणेषु निर्विशेष ब्रह्मवादनिराकरणाय सत्यत्वं प्रतिपाद्यत इति न वैयर्थम् । अथापि मार्गान्तरस्य मार्गान्तरादृषकत्वादित्यत्र तात्पर्धम् । नित्यविभूतिविशिष्टत्वं सत्यकामशब्दार्थ इति । सत्यशब्दस्य नित्यत्वमर्थ । कामशब्दस्य कामनाविषयीभूतभोग्यभोगोप करणादिकमर्थ इति भावः । । ननु प्रजापतिबाक्यगनसयकामशब्दस्यापि नित्य विभूतिमत्वमर्थः स्यादिति चेत्, इष्टापतेः । मुक्तस्याप्यप्राकृतविग्रहादिमत्वेन तत्स्वामि त्वसंभवात् । प्रथमस्य यथाशब्दस्येति । अथमिहान्वयक्रम:-इंह प्रजा यं यभन्तं जनपदं क्षेत्रभागमभिकामा भवन्ति तं तं यथाराजशासनं-राजशासनानुसारेण, यथा बविशन्ति-लभन्ते, तथा तं तमेवोपजीवन्ति-भुञ्जत इति । यथा राजसेवाफलस्य राजशासनानुवर्तित्वम्, एवं तत्फलभोगस्यापीत्युक्तं भवति । राजशासनं यथेति । यद्यपि यथानुशासनमित्यत्र यथाशब्दस्य पदार्थानतिवृत्यर्थकतया तस्य च नित्य समासत्वेन स्वपदविग्रहो न भवति, तथाशब्दप्रतिनिर्देशापेक्षपि नास्ति, न हि यथाविधि करोतीत्यादौ तथाशब्दाकाङ्कःऽति – अथापि सादृश्यार्थकयथाशब्दमादाय फलतस्समासार्थकथनम्; अत एव तथाशब्दप्रयोगोपपत्तिश्चेति द्रष्टयम् । श्रुतिगत त्वभ्रान्ति युदस्यति – भाष्य इति । न तु सत्यकाम्पदोक्तकामपर इति । नित्यविभूतिपरो न भवतीत्यर्थः । प्रकृतगुणविषयतयेति । अस्मिन्कामास्समाहित! इति प्रकृसंसर्वगुणविषयतयेत्यर्थः । शङ्कते – सत्यशब्दविशेषितत्वमिति । ततः पूर्वमिति । सत्यशब्दापूर्वमित्यर्थः । सत्यशब्दविशेषितत्वाचेति । न चैवू: