पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ माक्षिपतस्तदपि विप्रतिपन्नमिति वाच्यम् – अपहतपाप्मवादीनामपि अनृतापिधानत्व प्रतिपादनस्यावश्यकतया तन्मात्रसङ्कोचे प्रमाणाभावादिति भाव । एकरूपनाया अवश्याभ्युपगन्तव्यत्वादिति । ततश् छिष्टनिर्वाह आश्रयणीय इति भावः । तस्मिन्यदन्तः' इति वाक्ये क्रुिष्टनिर्वाहमनभ्युपगच्छतः कोऽभिप्राय :, किं थ इहात्मानमित्युपसंहारवाक्ये गुणागुण्युपासनोद्वयोरप्यनुवादः, उत विशिष्टविधानमश्रय द्वयोरपि विधानम्, उत गुण्यंशे फलसंबन्धविशिष्टोपासनविधिः गुणांशे तु फल संबन्धगन्नविधिरिति त्रेधा विकल्पं हृदि निधाय क्रमेण दृषयति न ह्यप्राप्त गुण्युपासनमित्यादिना । गतिशब्दाभ्यां भाष्ये –‘सत आगम्ये' ित श्रुत्युपन्यासात् सौत्रगतिशब्देन निर्गमनमपि विविक्षतमिित भाष्यकृतोऽभिसन्धरिित मत्व िनर्गमनशब्दार्थमाह-निर्गमनं पृथक् स्थित्यहेतापत्तिरिति । शब्दस्यान्यत्र प्रसिद्विमिति । गतिशब्दाभ्यामित्यत्र गतेरन्यत्र प्रसिद्धिमुपपाद्य शब्दस्य प्रसिद्धिमुपपादयतीत्यर्थः । निधिदृष्टान्तसचि वमिति भाव इति । ततश्च हृदयपुण्डरीकावच्छिन्नभृताकाशे सुषुप्तौ अहरहर्गमन संभवात् नाहरहर्गमनं परमात्मत्वसाधकमिति न शङ्कयम्-नियुपमालब्धपरमपुरुषार्थत्व विशिष्टगन्तव्यत्वस्य हृदयपुण्डरीकावच्छिन्नभूताकाशे अभावादिति भाव' । “ स्थपति र्निषादस्यात् शब्दसामथ्र्यात्'(६-१-५१) इति सूत्रपाठः । संबन्धविशिष्टोऽभिधेय इति । प्रतिपिपादयिषित इत्यर्थः । तत् पृष्ठया अश्रघणादिति । तत्र षष्टॉसभासपक्ष इत्यर्थः । तदनादृत्यैधै व्याख्यातमिति । न च चतुर्मुखोकपरतया प्रसिद्ध ब्रह्मलोकशब्दे नरपतिराजकुमारादिशब्देष्विव निषादस्थपतिन्यायानवतारात् तद्वया वृत्तिसिध्यर्थे पररीतिरेवाश्रयणीयेति वाच्यम् – 'एष ब्रह्मलोकस्सम्राट् ? इति ब्रह्म लोकशब्दस्य ब्रह्मयपि प्रसिद्धतथा तन्न्याधानवतारशक्षानुदया । दृष्टान्त एवोपरि शब्दान्वय इति । सुषुप्तिविषयगमनं हि पृथक्प्रतिपतिव्यवहाराननुगुणतयावस्थतिर्मद प्रहाणरूपा, अतः तत्र दाष्टन्तिके * अहरहरुपरि नाच्छन् । इति उपरिशब्दानन्वय इति भावः । नन्वन्तर्यामेरूपब्रह्मण्येवावश्चिति, न दहंकाशरूपब्रह्मणि । ततश्च कथं दह्राकाशस्योपरीतेि भाष्यमित्यत आह--'धम्र्येयाभिप्रायेणैवमुक्तमिति ।