पृष्ठम्:भावप्रकाशिका-भागः २.pdf/९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ श्रीरङ्गरामानुजमुनेिविरचिता इत्येतवत: प्रश्त्वादितेि द्रष्टव्यम् । सर्वेष्वन्तेषु= नेत्रादिस्थानेषु परिख्यायते। एष उ-एप एवेत्यर्थ इति पाठः । “ एष उ एव सर्वेष्वन्तेषु परिख्यायत इति होवाचे ? त्यस्य प्रतिवचनरूपत्वात् । केचित्तु योऽयं भगवोऽप्यु परित्यायंते, यश्चायमादर्श कतम एष इति । एष उ एव सर्वेष्वतेषु परियायते ! इत्येतावान् प्रश्नः । इति होवाचेति एतदुतरस्य उदशरावब्राह्मणस्य शेषभूतम् । तत्र च योऽयं भूगोप्सु परिख्यायते यश्चायमदर्श एव उ; एव । सर्वप्बन्तेषु नेत्रद्रिस्थानेषु परित्यायते, कतम एष इति प्रश्न । प्रक्षभध्यगः इतिशब्दः प्रक्षन्ते निवेशतीय इत्यादि वदन्ति । चाक्षुपदेहस्येति ! चक्षुषि दृश्यमानस्य छायापुरुषस्येत्यर्थ तद्रमस्यैव दृढावस्थित्वेन तस्यैवापनेयत्व दितेि द्रष्टव्यम् । अनात्मत्वमिति । इदमुपलक्षणम् – अमृताभयशब्द द्युक्तभोग्यत्वाद्यभावोऽपि द्रष्टव्यः । अत एव द्युसरन्न “ नहमत्र भोग्यं पश्यामी ? त्युक्तिरिति । द्रष्टव्यम् । अन्वयव्यति रेकाभ्यां चेति । देहगुणदोषान्वयव्यतिरेकानुविधानादित्यर्थ । यथा वसना भरणादिरिति । वसनाभरणादिहिँ उपादानद्रव्यगुणदोषानुविधायीं; नामः । तथा देहगुiदोषान्वयव्यििरेकानुविधायिगुणदोषतया. छायापुरुषो नात्मेत्यर्थ । । देही मंत्मेत्यत्र देहशब्दः छायपुरुषपर । एवमुत्तरत्रः देहस्यामृतत्क्षाभयेत्यत्रापि देहशध्दः छायापुंरुषरो द्रष्टव्य । यतिरेको. दुर्दशैम इति । एतच्छरीरगुण दोषन्वयव्यतिरेकानुविधायित्वव्यतिरेको दुर्दर्शन इत्यर्थः । स्वभावस्थे तु तद्यति रेंकस्सुदर्शनः । अत एवःथद्यपीदं शरीरमन् भवति अन्धस् भवतीति, स्वावस्थ मधिकृत्येन्द्रवाथैमिति, ध्येयम् । तदभिप्रायाप्तभिज्ञ इति । परिशुद्धात्मस्वरुप विषयपरमतत्प:भिज्ञ इत्यर्थः । एमित्यादिमुपादानुस्येति । “एष वाक्यमुंपाददानस्येत्यर्थः । दृष्टान्तदष्टान्तिकेति । 'अशरीरो वंायुः, अन्ने विद्युन् स्तनयित्नुरशंरीरण्येतानि । तद्यथेतान्यमुष्मादाकाशात्स मुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्त । इति दृष्टान्तवाक्यम् ;:एवमेवैष संस, इति दष्टन्तिक वाक्यम्। मुखं ध्यादाय स्वपितीति । यथा व्यदानस्य स्वापानन्तरभवित्वेऽपि मुखे. व्यादय:स्वपितीति निर्देशः, तथा-पर्ज्योतिर्भाबिरूपोपसंपतेः प्रपञ्चप्रविलापक वृत्तिरूपसाक्षात्काररूपाभिनिष्प्त्य नन्तरझवित्वेऽपि, . . परं ज्योतिरुपसंपद्य. स्वेन