यित्वा वङ्गदेशाधीश्वरस्य महाबलस्य वत्सराजस्याकारणाय स्वमङ्गरक्षकं प्राहिणोत् । स चाङ्गरक्षको वत्सराजमुपेत्य प्राह-'राजा त्वामाकारयति' इति । ततः स रथमारुह्य परिवारेण परिवृतः समागतो रथादवतीर्य राजानमवलोक्य प्रणिपत्योपविष्टः । राजा च सौधं निर्जनं विधाय वत्सराजं प्राह-
'राजा तुष्टोऽपि भृत्यानां मानमात्रं प्रयच्छति ।
ते तु सम्मानितास्तस्य प्राणैरप्युपकुर्वते ॥ १७ ॥
ततस्त्वया भोजो भुवनेश्वरीविपिने हन्तव्यः प्रथमयामे निशायाः । शिरश्चान्ते पुरमानेतव्यम्' इति । स चोत्थाय नृपं नत्वाऽऽह–'देवादेशः प्रमाणम् । तथापि भवल्लालनात्किमपि वक्तुकामोऽस्मि । ततः सापरारिमे वचः क्षन्तव्यम् ।
भोजे द्रव्यं न सेना वा परिवारो बलान्वितः ।
परं पोत इवास्तेऽद्य स हन्तव्यः कथं प्रभो ॥ १८ ॥
पारम्पर्य इवासक्तस्त्वत्पाद उदरम्भरिः ।
तद्वधे कारणं नैव पश्यामि नृपपुङ्गव' ॥ १९ ॥
ततो राजा सर्वं प्रातः सभायां प्रवृत्तं वृत्तमकथयत् । स च श्रुत्वा हसन्नाह-
'त्रैलोक्यनाथो रामोऽस्ति वसिष्ठो ब्रह्मपुत्रकः ।
तेन राज्याभिषेके तु मुहूर्तः कथितोऽभवत् ॥ २० ॥
तन्मुहूर्तेन रामोऽपि वनं नीतोऽवनीं विना ।
सीतापहारोऽप्यभवद्वैरिञ्चिवचनं वृथा ॥ २१ ॥
जातः कोऽयं नृपश्रेष्ठ किञ्चिज्ज्ञ उदरम्भरिः ।
यदुक्त्या मन्मथाकारं कुमारं हन्तुमिच्छसि ॥ २२ ॥
किञ्च-- किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।
इति सञ्चिन्त्य मनसा प्राज्ञः कुर्वीत वा न वा ॥ २३ ॥
उचितमनुचितं वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पण्डितेन ।
(१) श्राहानायेति यावत् ।
(२) जनरहितम् ।