पृष्ठम्:भोजप्रबन्धः.pdf/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

   राजानमनुवर्तन्ते यथा राजा तथा प्रजाः ॥ ४४ ॥

 ततो रात्रावेव वहिप्रवेशने निश्चिते राज्ञि सर्वे सामन्ताः पौराश्च मिलिताः 'पुत्रं हत्वा पापभयाद्भीतो नृपतिर्वह्निं प्रविशति' इति किंवदन्ती सर्वत्राजनि । ततो बुद्धिसागरो द्वारपालमाहूय 'न केनापि भूपालभवनं प्रवेष्टव्यम्' इत्युक्त्वा नृपमन्तःपुरे निवेश्य सभायामेकाकी सन्नुपविष्टः । ततो राजमरणवार्तां श्रुत्वा वत्सराजः सभागृहमागत्य बुद्धिसागरं नत्वा शनैः प्राह 'तात, मया भोजराजो रक्षितः' इति । बुद्धिसागरश्च कर्णे तस्य किमप्यकथयत् । तच्छ्रुत्वा वत्सराजश्च निष्क्रान्तः ।

 ततो मुहूर्तेन कोऽपि करकलितदन्तीन्द्रदन्तदण्डो विरचितप्रत्यग्रजटाकलापः कर्पूरकरम्बितभसितोद्वर्तितसकलतनुर्मूर्तिमान्मन्मथ इव स्फटिककुण्डलमण्डितकर्णयुगलः कौशेयकौपीनो मूर्तिमांश्चन्द्रचूड इव सभां कापालिकः समागतः । तं वीक्ष्य बुद्धिसागरः प्राह-योगीन्द्र, कुत आगम्यते । कुत्र ते निवेशश्च । कापालिके त्वयि यच्चमत्कारकारी कलाविशेष औषधविशेषोऽप्यस्ति ।' योगी प्राह

  देशे देशे भवनं भवने भवने तथैव भिक्षान्नम् ।
  सरसि च नद्यां सलिलं शिव शिव तत्त्वार्थयोगिनां पुंसाम् ॥ ४५ ॥
  ग्रामे ग्रामे कुटी रम्या निर्झरे निर्झरे जलम् ।
  भिक्षायां सुलभं चान्नं विभवैः किं प्रयोजनम् ॥ ४६ ॥

 देव, अस्माकं नैको देशः। सकलभूमण्डलं भ्रमामः । गुरूपदेशे तिष्ठामः । निखिलं भुवनतलं करतलामलकवत्पश्यामः । सर्पदष्टं विषव्याकुलं रोगग्रस्तं शस्त्रभिन्नशिरस्कं कालशिथिलितं तात, तत्क्षणादेव विगतसकलव्याधिसञ्चयं कुर्मः इति । राजापि कुड्यन्तर्हित एव श्रुतसकलवृत्तान्तः सभामागतः कापालिकं दण्डवत्प्रणम्य, योगीन्द्र, रुद्रकल्प, परोपकारपरायण, महापापिना मया हतस्य पुत्रस्य प्राणदानेन मां रक्ष' इत्याह । अथ कापालिकोऽपि 'राजन् , मा भैषीः । पुत्रस्ते न मरिष्यति । शिवप्रसादेन गृहमेष्यति । परं श्मशानभूमौ बुद्धिसागरेण सह होमद्रव्याणि प्रेषय' इत्यवोचत् । ततो राज्ञा 'कापालिकेन यदुक्तं तत्सर्वं तथा कुरु' इति बुद्धिसागरः प्रेषितः । ततो रात्रौ गूढरूपेण भोजोऽपि तत्र(२) लोकप्रवादः। (१)समन्ताद्भवाः-सामन्ताः।