विप्रानाह–'येन पूर्वार्धं कारितं तन्मुखात्कवित्वं कदाचिदपि न करणीयम् । उत्तरार्धस्य किञ्चिद्दीयते, न पूर्वार्धस्य ।'इत्युक्त्वा प्रत्यक्षरं लक्षं ददौ । तेषु च दक्षिणामादाय गतेषु कालिदासं वीक्ष्य राजा प्राह-कवे उत्तरार्धं त्वया कृतम्' इति । कविराह-
'अधरस्य मधुरिमाणं कुचकाठिन्यं दृशोश्च तैक्ष्ण्यं च ।
कवितायां परिपाकं ह्यनुभवरसिको विजानाति' ॥ ८८ ॥
राजा च-'सुकवे, सत्यं वदसि ।
अपूर्वो भाति भारत्याः काव्यामृतफले रसः ।
चर्वणे सर्वसामान्ये स्वादुवित्केवलः कविः ॥ ८९ ॥
सञ्चिन्त्य सञ्चिन्त्य जगत्समस्तं त्रयः पदार्था हृदयं प्रविष्टाः ।
इक्षोर्विकारा मतयः कवीनां मुग्धाङ्गनापाङ्गतरङ्गितानि ॥ ९० ॥
ततः कदाचिद् द्वारपालकः प्रणम्य भोजं प्राह-- राजन्, द्रविडदेशात्कोऽपि लक्ष्मीधरनामा कविर्द्वारमध्यास्ते' इति । राजा 'प्रवेशय' इत्याह । प्रविष्टमिव सूर्यमिव विभ्राजमानं चिरादप्यविदितवृत्तान्तं प्रेक्ष्य राजा विचारयामास । आह च-
'आकारमात्रविज्ञानसम्पादितमनोरथाः ।
धन्यास्ते ये न शृण्वन्ति दीनाः क्वाप्यर्थिनां गिरः' ॥ ९१ ॥
स चागत्य तत्र राजानं 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः प्राह- 'देव, इयं ते पण्डितमण्डिता सभा । त्वं च साक्षाद्विष्णुरसि । ततः किं नाम पाण्डित्यं तथाऽपि किञ्चिद्वच्मि-
भोजप्रतापं तु विधाय धात्रा शेषैर्निरस्तैः परमाणुभिः किम् ।
हरेः करेऽभूत्पविरम्बरे च भानुः पयोधेरुदरे कृशानुः ॥ ९२ ॥
इति । ततस्तेन परिषच्चत्कृता। राजा च तस्य प्रत्यक्षरं लक्षं ददौ । पुनः कविराह-'देव, मया सकुटुम्बेनात्र निवासाशया समागतम् ।
क्षमी दाता गुणग्राही स्वामी पुण्येन लभ्यते ।
अनुकूलः शुचिर्दक्षः कविर्विद्वान्सुदुर्लभः ॥ ९३ ॥
इति । ततो राजा मुख्यामात्यं प्राह–'अस्मै गृहं दीयताम्' इति । ततो(१) आकारमात्रविज्ञानेन सम्पादिता मनोरथा येषान्ते इत्यर्थः ।