पृष्ठम्:भोजप्रबन्धः.pdf/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

तवान्-'प्रिये, पश्य क एते गच्छन्ति ब्राह्मणा इव ।' ततः सा समेत्य सर्वानपश्यत् । उपेत्य च कालिदासं प्राह-

  एकेन राजहंसेन या शोभा सरसोऽभवत् ।
  न सा बकसहस्रेण परितस्तीरवासिना ॥ १५२ ॥

 सर्वे च बाणमयूरप्रमुखाः पलायन्ते, नात्र संशयः' इति । कालिदासः- 'प्रिये, वेगेन वासांसि भवनादानय, यथा पलायमानान्विप्रान्रक्षामि । किं पौरुषं रक्षति यो न वार्तान् किं वा धनं नार्थिजनाय यत्स्यात् । सा किं क्रिया या न हितानुबद्धा किं जीवितं साधुविरोधि यद्वै ॥ १५३ ॥

 ततः स कालिदासश्चारवेषं विधाय खङ्गमुद्वहन्क्रोशार्धमुत्तरं गत्वा तेषामभिमुखमागत्य सर्वान्निरूप्य 'जय' इत्याशीर्वचनमुदीर्य पप्रच्छ चारणभाषया-'अहो विद्यावारिधयः, भोजसभायां सम्प्राप्तमहत्त्वातिशयाः, बृहस्पतय इव सम्भूय कुत्र जिगमिषवो भवन्तः । कञ्चित्कुशलं वः । राजा च कुशली । अस्माभिः काशीदेशादागम्यते भोजदर्शनाय वित्तस्पृहया च । ततः परिहासं कुर्वन्तः सर्वे निष्कान्ताः । ततस्तेषु कश्चित्तद्गिरमाकर्ण्य तं च चारणं मन्यमानः कुतूहलेन विपश्चित्प्राह-'अहो चारण' शृणु । 'त्वया पश्चादपि श्रोष्यत एव । अतो मयाद्यैवोच्यते । राज्ञा किलैभ्यो विद्वद्भयः पूरणाय समस्योक्ता । तत्पूरणाशक्ताः कुपितराज्ञो भयाद्देशान्तरे क्वचिजिगमिषव एते निश्चक्रमुः। चारणः- राज्ञा का वा समस्या प्रोक्ता ।' ततः पठति स विपश्चित्-

  'तुलणं अणु अणुसरइ ग्लौसो मुहचन्दस्स खु एदाए ।'

चारणः- एतत्साध्वेव गूढार्थम् । एतत्पूर्णेन्दुमण्डलं वीक्ष्य राज्ञापाठि । एतस्योत्तरार्धमिदं भवितुमर्हति-

  'अणु इदि वण्णयदि कहं अणुकिदि तस्स प्पडिपदि चन्दस ॥

 सर्वे श्रुत्वा चमत्कृताः । ततश्चारणःसर्वान्प्रणिपत्य निर्ययौ । ततः सर्वे विचारयन्ति स्म-अहो, इयं साक्षात्सरस्वती पुंरूपेण सर्वेषामस्माकं परित्राणायागता । नायं भवितुमर्हति मनुष्यः। अद्यापि किमपि केनापि न ज्ञायते । ततः शीघ्रमेव गृहमासाद्य शकटेभ्यो भारमुत्तार्य प्रातः सर्वैरपि राजभवनमागन्तव्यम् । न चेच्चारण एव निवेदयिष्यति । ततो झटिति(१) वा आर्तान् इति च्छेदः। (२) या हितं नानुबध्नाति ।