धास्यामि । नृपाग्र एव कथयामि ।' स सभायामागत्य प्राह-'देव, कुम्भकारप्रिया काचिद्राज्ञो दर्शनाकाङ्क्षिणी न वक्ति मत्पुरः कार्यम् । भवत्पुरतः कथयिष्यति ।' राज्ञा–प्रवेशय ।' सा चागत्य नमस्कृत्य वक्ति-
'देव मृत्खननाद्दृष्टं निधानं वल्लभेन मे ।
स पश्यन्नेव तत्रास्ते त्वां ज्ञापयितुमभ्यगाम्' ॥ १७५ ॥
राजा च चमत्कृतो निधानकलशमानयामास । तद्द्वारमुद्धाट्य यावत्पश्यति राजा तावत्तदन्तर्वर्तिद्रव्यमणिप्रभामण्डलमालोक्य कुम्भकारं पृच्छति-'किमेतत्कुम्भकार ।' स चाह
'राजचन्द्रं समालोक्य त्वां तु भूतलमागतम् ।
रत्नश्रेणिमिषान्मन्ये नक्षत्राण्यभ्युपागमन् ॥ १७६ ॥
राजा कुम्भकारमुखाच्छ्लोकं लोकोत्तरमाकर्ण्यचमत्कृतस्तस्मै सर्वं ददौ ।
ततः कदाचिद्राजा रात्रावेकाकी सर्वतो नगरचेष्टितं पश्यन्पौरगिरमाकर्णयंश्चचार। तदा क्वचिद्वैश्यगृहे वैश्यः स्वप्रियां प्राह-'प्रिये, राजा स्वल्पदानरतोऽप्युज्जयिनीनगराधिपतेर्विक्रमार्कस्य दानप्रतिष्ठां काङ्क्षते । सा किं भोजेन प्राप्यते । कैश्चित्स्तोत्रपरायणैर्मयूरादिकविभिर्महिमानं प्रापितो भोजः । परन्तु भोजो भोज एव । प्रिये, शृणु ।
आबद्धकृत्रिमसटाजटिलांसभित्तिरारोपितो यदि पदं मृगवैरिणः श्वा ।
मत्तेभकुम्भतटपाटनलम्पटस्य नादं करिष्यति कथं हरिणाधिपस्य ॥ १७७ ॥
राजा श्रुत्वा विचारितवान्—'असौ सत्यमेव वदति ।' ततः पुनः पुनर्वदन्तं शृणोति-
'आपन्न एव पात्रं देहीत्युच्चारणं न वैदुष्यम् ।
उपपन्नमेव देयं त्यागस्ते विक्रमार्क किमु वर्ण्यः ॥ १७८ ॥
विक्रमार्क त्वया दत्तं श्रीमन्ग्रामशताष्टकम् ।
अर्थिने द्विजपुत्राय भोजे त्वन्महिमा कुतः ॥ १७९ ॥
प्राप्नोति कुम्भकारोऽपि महिमानं प्रजापतेः ।
यदि भोजेऽप्यवाप्नोति प्रतिष्ठां तव विक्रमः' ॥ १८० ॥
राजा-'लोके सर्वोऽपि जनः स्वगृहे निःशङ्कं सत्यं वदति । मया वान्येन वा सर्वथा विक्रमार्कप्रतिष्ठा न शक्या प्राप्तुम् ।(१) रत्नपतिव्याजेनेत्यर्थः । (२) सिंहस्येत्यर्थः ।