ततः कदाचित्कश्चित्कवी राजद्वारं समागत्याह-'राजा द्रष्टव्यः' इति । ततः प्रवेशितो राजानं 'स्वस्ति' इत्युक्त्वा तदाज्ञयोपविष्टः पठति-
'कविषु वादिषु भोगिषु देहिषु द्रविणवत्सु सतामुपकारिषु ।
धनिषु धन्विषु धर्मधनेष्वपि क्षितितले नहि भोजसमो नृपः' ॥ १८१ ॥
राजा तस्मै लक्षं प्रादात् । सर्वाभरणान्युत्तार्य तं च तुरगं ददौ ।
ततः कदाचिद्राजा क्रीडोद्यानं प्रस्थितो मध्ये मार्गं कामपि मलिनांशुवसनां तीक्ष्णतरतपनकरविदग्धमुखारविन्दं सुलोचनां लोचनाभ्यामालोक्य पप्रच्छ--
'का त्वं पुत्रि' इति ।
‘सा च तं श्रीभोजभूपालं मुखश्रिया विदित्वा तुष्टा प्राह-
'नरेन्द्र, लुब्धकवधूः
हर्षसम्भृतो राजा तस्याः पटुप्रबन्धानुबन्धेनाह-
'हस्ते किमेतत्'
सा चाह- 'पलम्'
राजाह - "क्षामं किम्'
सा चाह- 'सहजं ब्रवीमि नृपते यद्यादराच्छ्रूयते ।
गायन्ति त्वदरिप्रियाश्रुतटिनीतीरेषु सिद्धाङ्गना ।
गीतान्धा न तृणं चरन्ति हरिणास्तेनामिषं दुर्बलम्' ॥ १८२ ॥
राजा तस्यै प्रत्यक्षरं लक्षं प्रादात् ।
ततो गृहमागत्य गवाक्ष उपविष्टः । तत्र चासीनं भोजं दृष्ट्वा राजवर्त्मनि स्थित्वा कश्चिदाह-'देव, सकलमहीपाल, आकर्णय ।
इतश्चेतश्चाद्भिर्विघटिततटः सेतुरुदरे
धरित्री दुर्लङ्घ्या बहुलहिमपङ्को गिरिरयम् ।
इदानीं निर्वृत्ते करितुरगनीराजनविधौ
न जाने यातारस्तव च रिपवः केन च पथा' ॥ १८३ ॥
तुष्टो भोजो वर्त्मनि स्थितायैव तस्मै वंश्यान्पञ्च गजान्ददौ । कदाचिद्राजा मृगयारसपराधीनो हयमारुह्य प्रतस्थे ।(१) सूर्योष्णकिरणदग्धामित्यर्थः ।