पृष्ठम्:भोजप्रबन्धः.pdf/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

राजा-'तिष्ठ सुकवे, नापरः श्लोकः पठनीयः ।'

  'सुवर्णकलशं प्रादाद्दिव्यमाणिक्यसम्भृतम् ।
  भोजः शुकाय सन्तुष्टो दन्तिनश्च चतुःशतम् ॥ १९६ ॥

 इति पुण्यपत्रे लिखित्वा सर्वं दत्त्वा कोशाधिकारी शुकं प्रस्थापयामास ।
 राजा स्वदेशं प्रति गतं शुकं ज्ञात्वा तुतोष । सा च परिषत्सन्तुष्टा ।
 अन्यदा वर्षाकाले वासुदेवो नाम कविः कश्चिदागत्य राजानं दृष्टवान् । राजाह-सुकवे, पर्जन्यं पठ ।' ततः कविराह-

  'नो चिन्तामणिभिर्न कल्पतरुभिर्नो कामधेन्वादिभि-
   र्नो देवैश्च परोपकारनिरतैः स्थूलैर्न सूक्ष्मैरपि ।
  अम्भोदेह निरन्तरं जलभरैस्तामुर्वरां सिञ्चतां
   धौरेयेण धुरं त्वयाद्य वहता मन्ये जगज्जीवति' ॥ १९७ ॥

राजा लक्षं ददौ ।
 कदाचिद्राजानं निरन्तरं दीयमानमालोक्य मुख्यामात्यो वक्तुमशक्तो राज्ञः शयनभवनभित्तौ व्यक्तान्यक्षराणि लिखितवान्-

  'आपदर्थं धनं रक्षेत्'

 राजा शयनादुत्थितो गच्छन्भित्तौ तान्यक्षराणि वीक्ष्य स्वयं द्वितीय- चरणं लिलेख- श्रीमतामापदः कुतः ।

 अपरेद्युरमात्यो द्वितीय चरणं लिखितं दृष्ट्वा स्वयं तृतीयं लिलेख-

  “सा चेदपगता लक्ष्मी

परेद्यू राजा चतुर्थं चरणं लिखति–'सञ्चितार्थो विनश्यति' ॥ १९८ ॥

 ततो मुख्यामात्यो राज्ञः पादयोः पतति–'देव, क्षन्तव्योऽयं ममापराधः ।

 अन्यदा धाराधीश्वरमुपरि सौधभूमौ शयानं मत्वा कश्चिद्द्विजचोरः खातपातपूर्वं राज्ञः कोशगृहं प्रविश्य बहूनि विविधरत्नानि वैडूर्यादीनि हृत्वा तानि परलोकऋणानि मत्वा तत्रैव वैराग्यमापन्नो विचारयामास-

  'यद्व्यङ्ग्याः कुष्ठिनश्चान्धाः पङ्गवश्च दरिद्रिणः ।
  पूर्वोपार्जितपापस्य फलमश्नन्ति देहिनः ॥ १९९ ॥

 ततो राजा निद्राक्षये दिव्यशयनस्थितो विविधमणिकङ्कणालङ्कृतं दयितवर्गं दर्शनीयमालोक्य गजतुरगरथपदातिसामग्रीं च चिन्तयन्राज्य-(१) धुरि साधुः धौरेयः।