पृष्ठम्:भोजप्रबन्धः.pdf/५३

एतत् पृष्ठम् परिष्कृतम् अस्ति

सुखसन्तुष्टः प्रमोदभरादाह-

  'चेतोहरा युवतयः सुहृदोऽनुकूलाः
   सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः।
  वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गाः'

 इति चरणत्रयं राज्ञोक्तम् । चतुर्थचरणं राज्ञो मुखान्न निःसरति तदा चोरेण श्रुत्वा पूरितम्-

  'सम्मीलने नयनयोर्नहि किञ्चिदस्ति' ॥ २०० ॥

 ततो ग्रथितग्रन्थो राजा चोरं वीक्ष्य तस्मै वीरवलयमदात् । ततस्तस्करो वीरवलयमादाय ब्राह्मणगृहं गत्वा शयानं ब्राह्मणमुत्थाप्य तस्मै दत्त्वा प्राह–'विप्र, एतद्राज्ञः पाणिवलयं बहुमूल्यम् अल्पमूल्येन न विक्रेयम् । ततो ब्राह्मणः पण्यवीथ्यां तद्विक्रीय दिव्यभूषणानि पट्टदुकूलानि च जग्राह । ततो राजकीयाः केचनैनं चोरं मन्यमाना राज्ञो निवेदयन्ति । ततो राजनिकटे नीतः। राजा पृच्छति 'विटधार्य पटमपि नास्ति । अद्य प्रातरेव दिव्यकुण्डलाभरणपट्टदुकूलानि कुतः ?' विप्रः प्राह-

  'भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
   पाठीनैः पृथुपङ्कपीठलुठनाद्यस्मिन्मुहुर्मूर्च्छितम् ।
  तस्मिञ्शुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं
   यत्राकुम्भनिमग्नवन्यकरिणां यूथैः पयः पीयते ॥ २०१ ॥

तुष्टो राजा तस्मै वीरवलयं चोरप्रदत्तं निश्चित्य स्वयं च लक्षं ददौ ।

 अन्यदा कोऽपि कवीश्वर विष्ण्वाख्यो राजद्वारि समागत्य तैः प्रवेशितो राजानं दृष्ट्वा स्वस्तिपूर्वकं प्राह-

  'धाराधीश धरामहेन्द्रगणनाकौतूहलीयानयं
   वेधास्त्वद्गणने चकार खटिकाखण्डेन रेखां दिवि ।
  सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमीधरा-
  भावात्तु त्यजति स्म सोऽयमवनीपीठे तुषाराचलः ॥'

 राजा लोकोत्तरं श्लोकमाकर्ण्य 'किं देयम्' इति व्यचिन्तयत् । तस्मिन्क्षणे तदीयकवित्वमप्रतिद्वन्द्वमाकर्ण्य सोमनाथाख्यकवेर्मुखं विच्छायमभवत् । ततः स दौष्ट्याद्राजानं प्राह-'देव, असौ सुकविर्भवति ।(१) 'पाठीनोनिमिषस्तिमिः' इति धनञ्जयः । (२) हिमालयः।