गहिन्या त्रुटितांशुकं घटयितुं कृत्वा सकाकुस्मितं
कुप्यन्ती प्रतिवेश्म लोकगृहिणी सूचिं यथा याचिता ॥ २१५ ॥
राजा श्रुत्वा सर्वाभरणान्युत्तार्य तस्मै दत्वा प्राह-भास्कर, सीदन्त्यतीव ते बालाः। झटिति देशं याहि ।' ततः शाकल्यः प्राह-
अत्युद्धृता वसुमती दलितोऽरिवर्गः
क्रोडीकृता बलवता बलिराजलक्ष्मीः ।
एकत्र जन्मनि कृतं यदनेन यूना
जन्मत्रये तदकरोत्पुरुषः पुराणः' ।। २१६।।
ततो राजा शाकल्याय लक्षत्रयं दत्तवान् ।
अन्यदा राजा मृगयारसेन विचरंस्तत्र पुरः समागतहरिण्यां बाणेन विद्धायामपि वित्ताशया कोऽपि कविराह-
'श्रीभोजे मृगयां गतेऽपि सहसा चापे समारोपिते-
ऽप्याकर्णान्तगतेऽपि मुष्टिगलिते बाणेऽङ्गलग्नेऽपि च ।
स्थानान्नैव पलायितं न चलितं नोत्कम्पितं नोत्प्लुतं
मृग्या मद्वशगं करोति दयितं कामोऽयमित्याशया' ॥२१७॥
राजा तस्मै लक्षत्रयं प्रयच्छति ।
अन्यदा सिंहासनमलङ्कुर्वाणे श्रीभोजनृपतौ द्वारपाल आगत्याह- 'देव, जानवीतीरवासिनी काचन वृद्धब्राह्मणी विदुषी द्वारि तिष्ठति' ।
राजा-'प्रवेशय ।' तत आगच्छन्ती राजा प्रणमति । सा तं 'चिरं जीव' इत्युक्त्वाह-
'भोजप्रतापाग्निरपूर्व एष जागर्ति भूभृत्कटकस्थलीषु ।
यस्मिन्प्रविष्टे रिपुपार्थिवानां तृणानि रोहन्ति गृहाङ्गणेषु ॥ २१८ ॥
राजा तस्यै रत्नपूर्णं कलशं प्रयच्छति । ततो लिखति भाण्डारिकः-
'भोजेन कलशो दत्तः सुवर्णमणिसम्भृतः ।
प्रतापस्तुतितुष्टेन वृद्धायै राजसंसदि' ॥ २१९ ॥
अन्यदा दूरदेशादागतः कश्चिचोरो राजानं प्राह-'देव, सिंहलदेशे मया काचन चामुण्डालये राजकन्या दृष्टा, मालवदेशदेवस्य महिमानं बहुधा श्रुतं त्वमपि वदेति पप्रच्छ। मया च तस्या देवगुणा व्यावर्णि-(१) विष्णुरित्यर्थः ।