इति । ततः कविः पठति-
'लक्ष्मीक्रीडातडागो रतिधवलगृहं दर्पणो दिग्वधूनां
पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् ।
पिण्डीभूतं हरस्य स्मितममरधुनीपुण्डरीकं मृगाङ्को
ज्योत्स्नापीयूषवापी नयति सितवृषस्तारकागोलकस्य ॥ २५९ ॥
राजा पुनः प्रत्यक्षरलक्षं ददौ ।
एकदा कश्चिद्दूरदेशादागतो वीणाकविराह-
'तर्कव्याकरणाध्वनीनधिषणो नाहं न साहित्यवि-
न्नो जानामि विचित्रवाक्यरचनाचातुर्यमत्यद्भुतम् ।
देवी कापि विरञ्चिवल्लभसुता पाणिस्थवीणाकल-
क्वाणाभिन्नरवं तथापि किमपि ब्रूते मुखस्था मम' ॥ २६० ॥
राजा तस्मै लक्षं ददौ । बाणस्तस्य सुललितप्रबन्धं श्रुत्वा प्राह-'देव,
मातङ्गीमिव माधुरीं ध्वनिविदो नैव स्पृशन्त्युत्तमां
व्युत्पत्तिं कुलकन्यकामिव रसोन्मत्ता न पश्यन्त्यमी ।
कस्तूरीघनसारसौरभसुहृद्व्युत्पत्तिमाधुर्ययो-
र्योगः कर्णरसायनं सुकृतिनः कस्यापि सम्पद्यते ॥ २६१ ॥
अन्यदा राजा सीतां प्रातः प्राह-'देवि, प्रभातं व्यावर्णय' इति । सीता प्राह-
'विरलविरलाः स्थूलास्ताराः कलाविव सज्जना
मन इव मुनेः सर्वत्रैव प्रसन्नमभून्नभः ।
अपसरति च ध्वान्तं चित्तात्सतामिव दुर्जनो
व्रजति च निशा क्षिप्रं लक्ष्मीरनुद्यमिनामिव' ॥ २६२ ॥
राजा लक्षं दत्त्वा कालिदासं प्राह-सखे सुकवे, त्वमपि प्रभातं व्यावर्णय' इति । कालिदासः-
'अभूत्प्राची पिङ्गा रसपतिरिवापश्य कनकं
गतच्छायश्चन्द्रो बुधजन इव ग्राम्यसदसि ।
क्षणाक्षीणास्तारा नृपतय इवानुद्यमपरा
न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥ २६३ ॥
(१) स्वर्गङ्गायाः कमल मित्यर्थः । (२) दरिद्राणामिति यावत् ।