पृष्ठम्:भोजप्रबन्धः.pdf/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

  'यत्राम्बु निन्दत्यमृतमन्त्यजाश्च सुरेश्वरान् ।
  चिन्तामणिं च पाषाणास्तत्र नो वसतिः प्रभो' ॥ २७१ ॥

 तदा राजा लक्षं दत्वा प्राह–'काशीदेशे का विशेषवार्ता' इति । स आह–'देव, इदानीं काचिदद्भुतवार्ता तत्र लोकमुखेन श्रुता- देवा दुःखेन दीनाः' इति । राजा-'देवानां कुतो दुःखं विद्वन् ।' स चाह-

  'निवासः काद्य नो दत्तो भोजेन कनकाचलः ।
  इति व्यग्रधियो देवा भोज वार्तेति नूतना' ॥ २७२ ॥

 ततो राजा कुतूहलोक्त्या तुष्टः संस्तस्मै पुनर्लक्षं ददौ ।

 ततो द्वारपालः प्राह- देव, श्रीशैलादागतः कश्चिद्विद्वान्ब्रह्मचर्यनिष्ठो द्वारि वर्तते' इति । राजा-'प्रवेशय' इत्याह । तत आगत्य ब्रह्मचारी 'चिरं जीव' इति वदति । राजा तं पृच्छति-'ब्रह्मन् , बाल्य एव कलिकालाननुरूपं किं नामव्रतं ते । अन्वहमुपवासेन कृशोऽसि ।कस्यचिद्ब्राह्मणस्य कन्यां तुभ्यं दापयिष्यामि, त्वं चेद्गृहस्थधर्ममङ्गीकरिष्यसि' इति । ब्रह्मचारी प्राह–'देव, त्वमीश्वरः । त्वया किमसाध्यम् ।

  सारङ्गाः सुहृदो गृहं गिरिगुहा शान्तिः प्रिया गहिनी
  वृत्तिर्वन्यलताफलैर्निवसनं श्रेष्ठं तरूणां त्वचः ।
  तद्ध्यानामृतपूरमग्नमनसां येषामियं निर्वृति-
  स्तेषामिन्दुकलावतंसयमिनां मोक्षेऽपि नो न स्पृहा' ॥ २७३ ॥

 राजोत्थाय पादयोः पतति । आह च-'ब्रह्मन् , मया किं कर्तव्यम्' इति । स आह–'देव, वयं काशीं जिगमिषवः । तत एवं विधेहि । ये त्वत्सदने पण्डितवरास्तान्सर्वानपि सपत्नीकान्काशीं प्रति प्रेषय । ततोऽहं गोष्ठीतृप्तः काशीं गमिष्यामि' इति । राजा तथा चक्रे | ततः सर्वे पण्डितवरास्तदाज्ञया प्रस्थिताः । कालिदास एको न गच्छति स्म । तदा राजा कालिदासं प्राह-सुकवे, त्वं कुतो न गतोऽसि' इति । ततः कालिदासो राजानं प्राह-'देव, सर्वज्ञोऽसि |

  ते यान्ति तीर्थेषु बुधा ये शम्भोर्दूरवर्तिनः ।
  यस्य गौरीश्वरश्चित्ते तीर्थं भोज पर हि सः' ॥ २७४ ॥

 ततो विद्वत्सु काशीं गतेषु राजा कदाचित्सभायां कालिदासं पृच्छति-'कालिदास, अद्य किमपि श्रुतं किं त्वया' इति । स आह-