कोऽपि विद्वाञ्जालन्धरदेशादागत्य द्वार्यास्ते' इति । राजा-'प्रवेशय' इत्याह । स च विद्वानागत्य सभायां तथाविधं राजानं जगन्मान्यान्कालिदासादीन्कविपुङ्गवान्वीक्ष्य बद्धजिह्व इवाजायत । सभायां किमपि तस्य मुखान्न निःसरति । तदा राज्ञोक्तम्-'विद्वन् , किमपि पठ' इति स आह-
आरनालगलदाहशङ्कया मन्मुखादपगता सरस्वती ।
तेन वैरिकमलाकचग्रहव्यग्रहस्त न कवित्वमस्ति मे ॥ २८८ ॥
राजा तस्मै महिषीशतं ददौ । अन्यदा राजा कौतुकाकुलः सीतां प्राह–'देवि, सुरतं पठ' इति । सीता प्राह-
सुरताय नमस्तस्मै जगदानन्दहेतवे ।
आनुषङ्गि फलं यस्य भोजराज भवादृशाम् ॥ २८९ ॥
ततस्तुष्टो राजा तस्यै हारं ददौ ।
ततो राजा चामरग्राहिणीं वेश्यामवलोक्य कालिदासं प्राह-'सुकवे, वेश्यामेनां वर्णय' इति । तामवलोक्य कालिदासः प्राह-
'कचभारात्कुचभारः कुचभाराद्भीतिमेति कचभारः ।
कचकुचभाराज्जघनं कोऽयं चन्द्रानने चमत्कारः ॥ २९० ॥
भोजस्तुष्टः सन्स्वयमपि पठति-
'वदनात्पदयुगलीयं वचनादधरश्च दन्तपङ्क्तिश्च ।
कचतः कुचयुतलीयं लोचनयुगलं न मध्यतस्त्रसति' ॥ २९१ ॥
अन्यदा भोजो राजा धारानगर एकाकी विचरन्कस्यचिद्विप्रवरस्य गृहं गत्वा तत्र काञ्चन पतिव्रतां स्वाङ्के शयानं भर्तारमुद्वहन्तीमपश्यत् । ततस्तस्याः शिशुः सुप्तोत्थितो ज्वालायाः समीपमगच्छत् । इयं च पतिधर्मपरायणा स्वपतिं नोत्थापयामास । ततः शिशुं च वह्नौ पतन्तं नागृह्णात् । राजा चाश्चर्यमालोक्यातिष्ठत् । ततः सा पतिधर्मपरायणा वैश्वानरमप्रार्थयत्-'यज्ञेश्वर ! त्वं सर्वकर्मसाक्षी सर्वधर्माञ्जानासि । मां पतिधर्मपराधीनां शिशुमगृह्णन्तीं च जानासि । ततो मदीयशिशुमनुगृह्य त्वं मा दह' इति । ततः शिशुर्यज्ञेश्वरं प्रविश्य तं च हस्तेन गृहीत्वार्धघटिकापर्यन्तं तत्रैवातिष्ठत् । ततो नारोदीत्प्रसन्नमुखश्च शिशुः, सा च(१) केशकलाप इति यावत् ।