'कन्दुकं वर्णयन्तु कवयः' इति । तदा भवभूतिराह-
"विदितं ननु कन्दुक ते हृदयं प्रमदाधरसङ्गमलुब्ध इव |
वनिताकरतामरसाभिहतः पतितः पतितः पुनरुत्पतसि ॥ २९७ ॥
ततो वररुचिः प्राह-
"एकोऽपि त्रय इव भाति कन्दुकोऽयं
कान्तायाः करतलरागरक्तरक्तः ।
भूमौ तच्चरणनखांशुगौरगौरः
स्वस्थः सन्नयनमरीचिनीलनीलः' ॥ २९८ ॥
ततः कालिदास आह-
'पयोधराकारधरो हि कन्दुकः करेण रोषादभिहन्यते मुहुः ।
इतीव नेत्राकृतिभीतमुत्पलं स्त्रियः प्रसादाय पपात पादयोः ॥ २९९ ॥
तदा राजा तुष्टस्त्रयाणामक्षरलक्षं ददौ । विशेषेण च कालिदासमदृष्टावतंसकुसुमपतनबोद्धारं सम्मानितवान् ।
ततः कदाचिच्चित्रकर्मावलोकनतत्परो राजा चित्रलिखितं महाशेषं दृष्ट्वा 'सम्यग्लिखितम्' इत्यवदत् । तदा कश्चिच्छिवशर्मा नाम कविः शेषमिषेण राजानं स्तौति-
अनेके फणिनः सन्ति भेकभक्षणतत्पराः ।
एक एव हि शेषोऽयं धरणीधरणक्षमः ॥ ३०० ॥
तदानीं राजा तदभिप्रायं ज्ञात्वा तस्मै लक्षं ददौ । कदाचिद्धेमन्तकाले समागते ज्वलन्तीं हसन्तीं संसेवयन्राजा कालिदासं प्राह–'सुकवे, हसन्तीं वर्णय' इति । ततः सुकविराह-
'कविमतिरिव बहुलोहा सुघटितचक्रा प्रभातवेलेव ।
हरमूर्तिरिव हसन्ती भाति विधूमानलोपेता' ॥ ३०१ ॥
राजाक्षरलक्षं ददौ ।
एकदा भोजराजोऽन्तर्गृहे भोगार्हांस्तुल्यगुणाश्चतस्रो निजाङ्गना अपश्यत् । तासु च कुन्तलेश्वरपुत्र्यां पद्मावत्यामृतुस्नानम्, अङ्गराजस्य पुत्र्यां चन्द्रमुख्यां क्रमप्राप्तिम्, कमलानाम्न्यां च द्यूतपणजयलब्धप्राप्तिम् , अग्रमहिष्यां च लीलादेव्यां दूतीप्रेषणमुखेनाह्वानं च, एवं चतुरो गुणान्दृष्ट्वा तेषु गुणेषु न्यूनाधिकभावं राजाप्यचिन्तयत् । तत्र सर्वत्र दाक्षिण्यनिधी राज-(१) अङ्गारशकटीम् ।