पृष्ठम्:भोजप्रबन्धः.pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

इति । स आह-'न किमपि' इति । तदामात्यः प्राह-तत्रोक्तं श्लोकं पठ ।' ततः कविः श्लोकचतुष्टयं पठति । अमात्यस्ततः प्राह-'सुकवे, तव कोटिद्रव्यं दीयते; परं राज्ञा यदत्र तव दत्तं भवति तत्पुनर्विक्रीयताम्' इति, कविस्तथा करोति । ततः कोटिद्रव्यं दत्त्वा कविं प्रेषयित्वामात्यो राजनिकटमागत्य तिष्ठति स्म । तदा राजा च तमाह-'बुद्धिसागर, राज्यमिदं सर्वं दत्तं कवये । पत्नीभिः सह तपोवनं गच्छामि । तत्र तपोवने तवापेक्षा यदि मया सहागच्छ' इति । ततोऽमात्यः प्राह-'देव, तेन कविना कोटिद्रव्यमूल्येन राज्यमिदं विक्रीतम् । कोटिद्रव्यं च विदुषे दत्तम् , अतो राज्यं भवदीयमेव । भुङ्क्ष्व' इति । तदा राजा च बुद्धिसागरं विशेषेण संमानितवान् ।

 अन्यदा राजा मृगयारसेनाटवीमटँल्ललाटन्तपे तपने द्यूनदेहः पिपासापर्याकुलस्तुरगमारुह्योदकार्थी निकटतटभुवमटंस्तदलब्ध्वा परिश्रान्तः कस्यचिन्महातरोरधस्तादुपविष्टः । तत्र काचिद्गोपकन्या सुकुमारमनोज्ञसर्वाङ्गा यदृच्छया धारानगरं प्रति तक्रं विक्रीतुकामा तक्रभाण्डं चोद्वहन्ती समागच्छति । तामागच्छन्तीं दृष्ट्वा राजा पिपासावशादेतद्भाण्डस्थं पेयं चेत्पिबामीति बुद्ध्यापृच्छत्-'तरुणि, किंमावहसि' इति । सा च तन्मुखश्रिया भोजं मत्वा तत्पिपासां च ज्ञात्वा तन्मुखावलोकनवशाच्छन्दोरूपेणाह-

  'हिमकुन्दशशिप्रभशङ्खनिभं परिपक्वकपित्थसुगन्धरसम् ।
  युवतीकरपल्लवनिर्मथितं पिब हे नृपराज रुजापहरम्' ॥ ३१५ ॥

 इति । राजा तच्च तक्रं पीत्वा तुष्टस्तां प्राह-'सुभ्रूः, किं तवाभीष्टम्' इति । सा च किंचिदाविष्कृतयौवना मदपरवशमोहाकुलनयना प्राह–'देव, मां कन्यामेवावेहि ।' सा पुनराह-

  'इन्दुं कैरविणीव कोकपटलीवाम्भोजिनीवल्लभ
   मेघं चातकमण्डलीव मधुपश्रेणीव पुष्पव्रजम् ।
  माकन्दं पिकसुन्दरीव रमणीवात्मेश्वरं प्रोषित
   श्चेतोवृत्तिरियं सदा नृपवर त्वां द्रष्टुमुत्कण्ठते' ॥ ३१६ ॥

 राजा चमत्कृतः प्राह- 'सुकुमारि,त्वां लीलादेव्या अनुमत्या स्वीकुर्मः ।(१)अटवीम्-अरण्यम् ।