कियत्यपि कालेऽतिक्रान्ते राजा कदाचित्सन्ध्यामालोक्य ग्राह--
परिपतति पयोनिधौ पतङ्गः'
ततो बाणः प्राह--
'सरसिरहामुदरेषु मत्तभृङ्गः ।
ततो महेश्वरकविः--
'उपवनतरुकोटरे विहङ्गः
ततः कालिदासः प्राह-~
'युवतिजनेषु शनैःशनै [१] रनङ्गः ॥ १६१ ।।
तुष्टो राजा लक्षं लक्षं ददौ । चतुर्थचरणस्य लक्षद्वयं ददौ ।
कुछ समय व्यतीत हो जाने पर कमी राजा ने संध्याकाल को देखकर कहा-
'गिरता हैं जल निधि में पतंग ( सूर्य )।' |
संतुष्ट राजा ने लाख-लाख मुद्राएँ दीं, चौथे चरण पर दो लाख दिये। कदाचिद्राजा बहिस्थानमध्ये मार्ग प्रत्यागच्छन्तं कमपि विप्रं ददर्श । तस्य करे चर्ममयं कमण्डलं वीक्ष्य तं चातिदारिद्रं ज्ञात्वा मुखश्रिया विराजमानं चावलोक्य तुरङ्ग तदनिधायाह-विप्र, चर्मपात्रं किमर्थं पाणौ वहसि इति । स च विप्रो नूनं मुखशोभया मृदूक्त्या च भोज इति विचार्याह--'देव, वदान्यशिरोमणौ भोजे पृथ्वी शासति लोहताम्राभावः समजनि । तेन चर्ममयं पात्रं वहामि, इति । राजा-~ 'भोजे शासति लोहताम्राभावे को हेतुः । तदा विप्रः पठति--
अस्य श्रीभोजराजस्य द्वयमेव सुदुर्लभम् । |
ततस्तुष्टो राजा प्रत्यक्षरं लक्षं ददौ ।
- ↑ मन्मथः । ....