पृष्ठम्:मथुराविजयम्.djvu/३३

एतत् पृष्ठम् परिष्कृतम् अस्ति

मधुराविजये

दासतां कालिदासस्य कवयः के न बिभ्रति ।
इदानीमपि तर्स्याथानुपजीवन्त्यमी यतः ॥ ७॥
वाणीपाणिपरामृष्टवीणानिक्वाणहारिणीम् ।
भावयन्ति क्वथं वान्ये भट्टवाणस्य भारतीम् ॥ ८ ॥
विमर्दव्यक्तसौरभ्या भारती भारवेः कवेः ।
धत्ते वकुलमालेव विद्वानां चमत्क्रियाम् ॥ ९ ॥
आचार्यदण्डिनो वाचामाचान्तामृतसंपदाम् ।
विकासो वेधसः पत्न्या विलासमणिदर्पणः ॥ १० ॥
सा कापि सुरभिः शङ्के भवभूते: सरस्वती |
कर्णेषु लब्धवर्णानां सूते सुखमयीं सुधाम् ॥ ११ ॥
मन्दारमञ्जरीस्यन्दिमकरन्दरसाब्धयः ।
कस्य नाह्लादनायालं कर्णामृतकवेर्गिरः ॥ १२ ॥
तिक्कयस्य कवेः सूक्तिः कौमुदीव कलानिधेः ।
सतृष्णैः कविभिः स्वैरं चकोरैरिव सेव्यते ॥ १३ ॥
चतुस्सप्ततिकाव्योक्तिव्यक्तवैदुष्यसंपदे ।
अगस्त्याय जगत्यस्मिन् स्पृहयेत् को न कोविदः ॥ १४ ॥
स्तुमस्तमपरं व्यासं गङ्गाधर महाकविम्
नाटकच्छद्मना दृष्टां यश्चक्रे भारतीं कथाम् ॥ १५ ॥
चिरं स विजयीभूयाद् विश्वनाथः कवीश्वरः ।
यस्य प्रसादात् सार्वज्ञ्यं समिन्धे माहशेष्वपि ॥ १६ ॥
क्वचिदर्थः क्वचिच्छब्दः क्वचिद् भावः कचिद् रसः ।
यत्रैते सन्ति सर्वेऽपि स निबन्धो न लभ्यते ॥ १७ ॥