पृष्ठम्:मथुराविजयम्.djvu/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः सर्गः ।

बद्धाः सभाङ्गणे यस्य भान्ति स्म जयसिन्धुराः ।
बन्दीकृता इवाम्भोदा जैत्रयात्रानिरोधिनः ॥ ४० ॥
यस्य सेनातुरङ्गाणां खुरैरुत्थापितं रजः |
अकाण्डे राहुसन्देहं मार्ताण्डस्योदपादयत् ॥ ४१ ॥
यद्विभूविस्तुतौ स्वल्पा लक्ष्मीर्यशामरेशयोः ।
दूरे दुर्बोधनादीनां संपत्सादृश्यकल्पना ॥ ४२ ॥
तस्यासीद् विजया नाम विजयार्जितसंपदः ।
राजधानी बुधैः श्लाघ्या शक्रस्थेवामरावती ॥ १३ ॥
सुरलोकान्तसंक्रान्तस्वर्णदीमत्सरादिव |
परिखाकारतां यान्त्या परीता तुङ्गमद्रया ॥ ४४ ॥
लक्ष्मीलतालवालेन क्ष्मावधूनाभिशोभिना ।
चक्राचलप्रकारेण प्राकारेण परिष्कृता ॥ ४५ ॥
स्फुरन्मणिप्रभाहूतपुरुहूतशरासनैः ।
सुमेरुशृङ्गसंकाशैर्गोपुरैरुपशोभिता ॥ ४६ ॥
उत्फुल्लचम्पकाशोकनागकेसरकेतरैः ।
वसन्तबासभवनैराराम्रैरभितो वृता ॥ १७ ॥
कस्तूरीहरिणाक्रान्तकर्पूरकदलीतलैः ।
मनोभवमही दुर्गैर्महिता केलिपर्वतैः ॥ ४८ ॥
कमलामोदमधुरैः कलहंसकुलाकुलैः ।
क्रीडासरोभिः सहिता मणिसोपानमञ्जुलैः ॥ ४९ ॥
यशस्स्तोमैरिवाशेषनगरीविजयार्जितैः
सौघैः प्रकाशितोत्सेधा शरदम्भोदपाण्डरैः ॥ ५० ॥