पृष्ठम्:मथुराविजयम्.djvu/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

६ मधुराविजये

विकसद्वनितावल्लीविलासवनवाटिका |
दक्षिणाशासरोजाक्षीफाललीलाललाटिका ॥ ५१ ॥
द्विजराजसमुल्लासनित्यराकानिशीथिनी ।
गन्धर्वगणसान्निध्यनव्यदिव्यवरूथिनी ॥ ५२ ॥
भुजङ्गसङ्घसंवासभूतेशमुकुटस्थली ।
सुमनस्स्तोमसं रसुवर्णगिरिमेखला ॥ ५३ ॥
लीलेव दिष्टिवृद्धीनां शालेव सकलश्रियाम् ।
मालेव सर्वरत्नानां वेलेय सुकृताम्बुधेः ॥ ५४ ॥
( द्वादशभिः कुलकम् । )
यस्यां प्रासादशृङ्गेषु लग्नं मार्ताण्डमण्डलम् |
संघत्ते वीक्षमाणानां सौवर्णकलशभ्रमम् ॥ ५५ ॥
यत्सौधचन्द्रशालासु विहरन्त्यो मृगेक्षणाः ।
शशाङ्कमवलम्बन्ते मुक्ताकन्दुकशङ्कया ॥ ५६ ॥
यत्र सौधेपु सङ्गीतमृदङ्गभतिनादिषु ।
अकाण्डे ताण्डवारम्भं वितन्यन्ति शिखण्डिनः ॥ ५७ ॥
पद्मरागोपलोत्कीर्णप्रासादप्रान्तवर्तिनः ।
सन्ततं यत्र दृश्यन्ते सान्ध्या इव बलाहकाः ॥ ५८ ॥
सन्ध्यासु यत्र निर्यान्ति जालेभ्यो धूपराजयः ।
अन्तः प्रदीपिकालोकचकितध्वान्तसन्निभाः ॥ ५९ ।।
यद्दीर्घिकासु माणिक्कमयसोपानचारिभिः ।
क्षणदास्वपि चक्राह्वैर्विरहो नानुभूयते ॥ ६० ॥
यदङ्गनामुखाम्भोजलावण्यालाभलज्जितः ।
कुलङ्कच्छद्मना चन्द्रो व्यनक्ति हृदयव्यथाम् ॥ ६१ ॥