पृष्ठम्:मथुराविजयम्.djvu/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

मधुराविजये

देवायी नाम तस्यासीद देवी वसुमतीपतेः ।
पद्मा पद्मेक्षणस्येव शङ्करस्येव पार्वती ॥ ७३ ॥
सत्स्वप्यन्येषु दारेषु तामेव मनुजाधिपः ।
बह्वमंस्त निशानाथो नक्षत्रेष्विव रोहिणीम् ॥ ७४ ॥
कर्णाटलोकनयनोत्सवपूर्णचन्द्रः
साकं तया हृदयसंमतया नरेन्द्रः |
कालोचितान्यनुभवन् क्रमशः सुखानि
वीरश्चिराय विजयापुरमध्यवात्सीत् ।। ७५ ॥
इति श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीरकम्परायचरिते
प्रथमः सर्गः ।
मीनाक्ष्यै नमः ।
अथ द्वितीयः सर्गः ।
अथास्य वंशप्रतिरोहबीजं महीभुजो गर्भमघत्त देवी ।
जगत्रयोदभूतिनिदानभूतं तेजो विधातुः प्रथमेव सृष्टिः ।। १ ।।
मुखेन तन्वी शरपाण्डरेण विमुक्तरत्नाभरणा विरेजे ।
विलूनराजाववना दिनान्ते छायाशशाङ्केन शरन्नदीव ॥ २ ॥
गर्भस्थितस्येव शिशोर्विधातुं वसुन्धरामण्डलमारशिक्षाम् ।
अरोचयत् पार्थिवधर्मपत्नी मन्ये मृदास्वादरसानुबन्धम् ॥ ३ ॥