पृष्ठम्:मथुराविजयम्.djvu/४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः ।
अनन्यसामान्यभुजापदानमुत्पत्स्यमानं तनयं नृपस्य ।
अनारतं वीररसानुबन्धं न्यवेदयद् दौहृदमेव देव्याः ॥ ४ ॥
सा तुङ्गभद्रां सविधे वहन्तीं सुभ्रूरनादृत्य सुखावगाहाम् ।
विहर्तुमैच्छन्निजसैन्यनागैस्तरङ्गिते वारिणि ताम्रपर्ण्याः ॥ ५ ॥
अपारयन्ती चरितैणशाबं क्रीडाचलोपान्तमपि प्रयातुम् ।
आखेटरागादधिरोढुमैच्छन्माद्यन्मृगेन्द्रन् मलयाद्रिकूटान् ॥ ६ ॥
सा दैत्यनाथमथनाय पूर्व विष्णोरधस्तात्कृत पौरुषस्य ।
आकर्णयन्ती कुहनाप्रपञ्चादासी ............ ॥ ७ ॥
पृथ्वी रथः सारथिरब्जसूतिः शेषेण सज्यं धनुरद्रिराजः ।
शरश्च शौरिः किल हन्त लक्ष्यं त्रयं पुरामित्यहसत् पुरारिम् ॥ ८ ॥
क्रमाज्जहद्भिः क्रशिमांनमङ्गैर्मुखेन मुग्धालसलोचनेन ।
मध्येन च ( व्य? त्य)क्तवलित्रयेण नरेश्वरं नन्दयति स्म राज्ञी ॥ ९ ॥
सौभाग्यगन्धद्विपदानलेखा रराज तस्या नवरोमराजिः ।
तेजोनिधिं गर्भतले निंगूढं कालोरगी रक्षितुमागतेव ॥ १० ॥
श्यामायमानच्छविना मुखेन स्तनद्वयं तामरसेक्षणायाः ।
संदष्टनीलोत्पलयोरमियां रथाङ्गनाम्नोरघरीचकार ॥ ११ ॥
तामम्बुगर्भामिव मेघमालां वेलामिवाभ्यन्तरलीनचन्द्राम् ।
अन्तस्स्थरत्नामिव शुक्तिरेखामापन्नसत्वां प्रभुरभ्यनन्दत् ॥ १२ ॥
ततः परं तापहरः प्रजानां पुरोहितोक्त्या पुरुहूतकल्पः ।
व्यधत्त काले विभवानुरूपं पुंसां वरः पुंसवनक्रियां सः ॥ १३ ॥
अथ प्रशस्ते दिवसे समस्तैर्मौहूर्तिकै साधितपुण्यलग्ने
अनूत सूनुं नरनाथपकी देवी महासेनमिवेन्दुमौलेः ॥ १४ ॥