पृष्ठम्:मथुराविजयम्.djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१०
मधुराविजये
महौजसस्तस्य निजैर्यशोभिरुद्वेलदुग्धोदधिपूरगौरैः ।
प्रक्षालितानीव तदा बभूवुर्धृतप्रसादानि दिशां मुखानि ॥ १५ ॥
ज्ञात्वा वशे तस्य भुवं भवित्रीं भयादिवास्पृष्टपररांगलेशः ।
आकृष्टकल्पद्रुमपुष्पगन्धो मरुद् ववौ मन्दममन्दशैत्यः ॥ १६ ॥
आगामिनीमध्वरहव्यसिद्धिं निश्चित्य देशेष्वपि दक्षिणेषु ।
प्रदक्षिणीभूतशिखाकलापो ननर्त हर्षादिव हव्यवाहः ॥ १७ ॥
कल्पद्रुमास्तेन हरिष्यमाणां मत्वा निजां त्यागयशःपताकाम् ।
पयोधरप्रेषितपुष्पवर्षाः प्रागेव सन्धानमिवान्वतिष्ठन् ॥ १८ ॥
स्ववैरिभूतान् मृगयासु सिंहान् हन्ता प्रवीरोऽयमिति प्रहर्षात् ।
प्रभिन्नगण्डस्रुतदानधारा जगर्जुरुच्चैर्जयकुञ्जरेन्द्राः ॥ १९ ॥
अस्योपवाह्यत्वमुपेत्य लभ्यां कीर्ति भवित्रीमिव भावयन्तः |
क्ष्मामुल्लिखन्तश्चटुलैः खुराग्रैर्जिहेषिरे हर्षजुषस्तुरङ्गाः ॥ २० ॥
प्रस्तावितो मङ्गलतूर्यघोषैः प्रसारितश्चारणचाटुवादैः ।
प्रहृष्यतां तत्र पुरे जनानां कोलाहलः कोऽपि समुज्जजृम्भे ॥ २१ ॥
सुखायमानां सुतजन्मवार्ता सहर्षमावेदयते जनाय ।
अवाञ्छदात्मानमपि प्रदातुं कुतूहली कुन्तलभूमिपालः ॥ २२ ॥
विशृङ्खलास्तस्य गिरा निरीयुः कारागृहेभ्यो विमतावरोधाः ।
तुलुष्कबन्दीनिवहाय तूर्णमागामिने दातुमिवावकाशम् ॥ २३ ॥
स्नातस्ततो धौतदुकूलधारी वितीर्य भूरि द्रविणं द्विजेभ्यः ।
महीपतिः पुत्रमुखं दिदृक्षुः प्राविक्षदन्तःपुरमातहर्षः ॥ २४ ॥
अवैक्षत क्षामशरीरयष्टेः कुमारमुत्सङ्गगतं स देव्याः ।
शरत्कृशाया इव शैवलिन्यास्तरङ्गलग्नं कलहंसशाबम् ॥ २५ ॥