पृष्ठम्:मथुराविजयम्.djvu/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयः सर्गः ।
प्रकीर्णकाश्मीरपरागगौरैस्तिरस्कृताभ्यन्तरदीपशोभैः ।
निवार्यमाणं (?) मुहुरुज्जिहानैररिष्टगेहं महसां प्ररोहैः ॥ २६ ॥
मुहुर्मुहुः पल्लवपाटलेन मुष्टीकृतेन द्वितयेन पाण्योः ।
अरातिलक्ष्मीकचसंचयानामाकर्षशिक्षामिव शीलयन्तम् ॥ २७ ॥
आलक्ष्यरेखामयशङ्खचक्रच्छत्रारविन्दध्वजमीनचिह्नौ ।
प्रवालताम्राङ्गुलिदर्शनीयौ सुजातपार्ष्णी चरणौ वहन्तम् ॥ २८ ॥
का (ले?ये) कलामप्यसुरान्तकस्य प्रकाशयन्तीमवतारमन्यम् ।
अचञ्चलश्रीतटिदभ्रलेखां श्रीवत्समुद्रामुरसा दधानम् ॥ २९ ॥
ऊर्णासनाथायतफालपट्टमुन्निद्रपद्मच्छददीर्घनेत्रम् |
ताम्राघरोष्ठं समतुङ्गनासं मुग्धस्मिताङ्गं मुखमुद्वहन्तम् ॥ ३० ॥
( षड्भिः कुलकम् । )
अव्याजसौन्दर्यगुणाभिरामं कुमारमालोकयतश्चिराय ।
नृपस्य निष्पन्ददृशो मुहूर्तमानन्दबाष्पोऽभवदन्तरायः ॥ ३१ ॥
आश्लिष्यतस्तस्य दृशा तनूजमन्तः प्रहर्षेण विजृम्भितेन ।
प्रायः प्रणुन्नैर्बहिरङ्गकेभ्यः प्रादुर्बभूवे पुलकप्ररोहैः ॥ ३२ ॥
ततः प्रतीतेऽह्नि पुरोहितेन नरेन्द्रसूनुः कृतजातकर्मा ।
समिद्धतेजा: समतामयासीन्मन्त्रप्रणीतेन मखानलेन ॥ ३३ ॥
आकम्पयिष्यत्ययमेकवीरः संग्रामरङ्गे सकलानरातीन् ।
इत्येव निश्चित्य स दीर्घदर्शी नाम्ना सुतं कम्पन इत्यकार्षीत् ॥ ३४॥
घात्रीभिराप्ताभिरमुं कुमारमवर्वयद् भूपतिरादरेण ।
यज्वा यथाज्याहुतिभिर्हुताशं सस्यं यथा वृष्टिभिरम्बुवाहः ॥ ३५ ॥
क्रमेण धात्रीजनशिक्षितानि वचांसि यातानि च मन्थराणि ।
स्खलत्पदान्यस्य धराधिनाथो निशम्य दृष्ट्वा च स निर्वृतोऽभूत् ॥ ३६ ॥