पृष्ठम्:मथुराविजयम्.djvu/४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२
मधुराविजये
तदाननं तस्य सुगन्धि जिघ्रन्नालक्ष्यदन्ताङ्कुरदर्शनीयम् ।
न तृप्तिमासादयति स्म राजा नवोदयं हंस इवारविन्दम् ॥ ३७ ॥
तथा न कर्पूरभरैर्न हारैर्न चन्दनैर्नाप्यमृतांशुपादैः ।
यथाभवन्निर्वृतमस्य गात्रं सुतासंस्पर्शभुवा सुखेन ॥ ३८ ॥
कलक्कणत्काञ्चनकिङ्किणीकं गृहाङ्गणे जानुचरं कुमारम् ।
आलोकयन्तावमृताम्बुराशेर्भग्नाविवान्तः पितरावभूताम् ॥ ३९ ॥
अथ क्रमात् पार्थिवधर्मपत्नी सुतावुभौ कम्पनसङ्गमाख्यौ ।
असूत चिन्तामणिपारिजातौ पयः पयोधेरिव वीचिरेखा ॥ ४० ॥
स राजसूनुः सह सोदराभ्यां [दिने दिने वृद्धिमुपाससाद ।
शशीव सानन्दमुदीक्ष्यमाणः प्रजाभिरालोकसमुत्सुकाभिः ॥ ४१ ॥]
पशुपतिरिव नेत्रैः सोमसूर्याग्निरूपै-
र्नय इव निरपायैः प्राभवोत्साहमन्त्रैः ।
भव इव पुरुषार्थैर्धर्मकामार्थसज्ञे-
स्त्रिभिरपि नरपालस्तैस्तनूजैरभासीत् ॥ ४२ ॥
इति श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि [वीर*] कम्परायचरिते
द्वितीयः सर्गः ।
अथ तृतीयः सर्गः |
ततो यथावत्कृतचौलसत्क्रियो नरेन्द्रसूनुः स्वत एव लब्धवान् ।
कलासु शश्वत् सकलासु कौशलं गुरूपदेशस्त्वपदेशतामगात् ॥ १ ॥