पृष्ठम्:मथुराविजयम्.djvu/४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयः सर्गः ।
स तीर्थलब्घायुधशस्त्रसंविदा गुणाभिरामो गुरुणैव शिक्षितः ।
शरासनासिपमुखेषु शातवीरगच्छदस्रेष्वखिलेषु पाटवम् ॥ २ ॥
स सत्यवाग् भूरिवलो घनुर्घरस्तुरङ्गमारोहणकर्ममर्मवित् ।
कृपाणविद्यानिपुणः पृथाभुवामदर्शि संङ्घात इवैकतां गतः ॥ ३ ॥
स पश्चबाणद्विपकेलिदीर्घिकां धरानुरागद्रुमपुष्पमञ्जरीम् (?) ।
नितम्बिनीनेत्रचकोरचन्द्रिकाभवापदास्कन्दितशैशवां दशाम् ॥ ४॥
स नव्यतारुण्यनिरस्तशैशवो विभुर्विभक्तवयवो व्यराजत ।
वसन्तनिर्धूतत्तुषारमण्डल: पदिर्दिनानामिव तीव्रदीधितिः ॥ ५ ॥
स सर्वतः पर्वतकन्दराश्रयैः परिग्रहानुग्रहकाङ्क्षिभिर्गजैः ।
वितीर्णमुत्कोचतयेव धीरधीरधारयद् विभ्रममन्थरं गतम् ॥ ६ ॥
स रूपगर्वेण निरास्थदङ्घ्रिणा स्मरस्य नूनं जयवैजयन्तिकाम् ।
न चेत् कथं तस्य तलेऽतिकोमले सुलेखमालक्ष्यत मीनलाञ्छनम् ॥ ७॥
शुभाकृतेस्तस्य सुवर्णमेखलं कटिस्थलं स्थूलशिलाविशङ्कटम् ।
व्यडम्बयन्नूतनधातुपट्टिकापरिष्कृतामञ्जनभूभृतस्तीम् ॥ ८ ॥
अधारयद् दर्शितदेहसौष्ठवां स राजसूनुस्तनुवृत्तमध्य ( मा?ता) म् ।
पराक्रमत्रासितचित्तवृत्तिभिर्मृगाधिराजैरुपदीकृतामिव ॥ ९ ॥
व्यराजतोरःरस्थलमस्य तावता विशालभावेन कवाटबन्धुरम् ।
करीन्द्रकुम्भप्रतिमं मृगीदृशां कुचद्वयं याति न यावता बहिः ॥ १० ॥
घनांसपीठौ कठिनारुणाङ्गुली पटुमकोष्ठौ परिधानुकारिणौ ।
महौजसस्तस्य मनोहरौ भुजावपश्यदाजानुविलम्बिनौ जनः ॥ ११ ॥
विहाय मध्यं यदि लक्ष्मरेखया बहिः प्रसार्येत सुधांशुमण्डलम् ।
दरोदितश्मश्रु (धृ?कृ) तश्रियस्तदा तदाननेन्दोरुपमानतां व्रजेत् ॥ १२ ॥