पृष्ठम्:मथुराविजयम्.djvu/४५

एतत् पृष्ठम् परिष्कृतम् अस्ति

मधुराविजये
विनिद्रपङ्केरुहदामदीर्घयोर्दृशोरुपान्ते जनितोऽस्य शोणिमा ।
अनर्गलस्वप्रसरप्ररोधकश्रुतिद्वयीदर्शितरोषयोरिव ॥ १३ ॥
अनुल्बणामायततुङ्गबन्धुराममंस्त लोकः स्फुटमस्य नासिकाम् |
विशृङ्खलव्याप्नुवदीक्षणद्वयीपरस्पराक्रान्तिनिवारणार्गलाम् ॥ १४ ॥
अधारयद् गर्मितरक्तसन्ध्यकं नृपात्मजः केशकलापमायतम् ।
दृढानुरागच्छुरितैर्मृगीदृशामनुप्रविष्टं हृदयैरिवान्तरा ॥ १५ ॥
सह प्रतापेन समुन्नतिं वपुर्वलर्क्षभावं यशसा विलोचने ।
गुणैः परीणाहममुष्य कन्धरा स्वरेण गाम्भीर्यमगच्छदाशयः ॥ १६ ॥
अथैनमासादितयौवनोदयं नरेन्द्रकन्याभिरयोजयन्नृपः ।
धनागमः संभृतरत्नसंपदं वरापगाभिर्निधिमम्भसामिव ॥ १७ ॥
शचीव शक्रस्य रमेव शार्ङ्गिणः सतीव शम्भो......।
.....................................॥ १८ ॥
[ नरेन्द्रसूनुर्नयनाभिरामया तया समं निर्विशति स्म सुभ्रुवा ।
परस्परप्रेमरसोत्तरं सुखं दिवौकसामप्यतिमात्रदुर्लभम् ॥ १९ ॥
अरातिवर्गोन्मथनेन विश्रुतं विधातुमत्यन्तविनीतमप्यमुम् ।
कदाचिदर्थोल्लसितन भूपतिः स वाङ्मयेनैवमुपादिशत् सुतम् ॥ २० ॥
घियः प्रकाशादुपदेशसंभृतात् तमो हि तारुण्यविजृम्भितं जनाः |
समुज्झितुं तात! भवन्ति पारितास्तदे*] तदाकर्णयितुं त्वमर्हसि ॥ २१ ॥
गुरूपदेशः किल कथ्यते बुधैरकर्कशं किंचन रत्नकुण्डलम् ।
अमेचकं नूतनमञ्जनं सतामजातगात्रक्षयमद्भुतं तपः ॥ २२ ॥
मुहुः प्रसर्प मदमीलितेक्षणाः क्षणाधिरोहद्रजसो मलीमसाः ।
गजा इव स्वम्मनिरुद्धचेतसः खला न गृह्णन्ति नियन्तृचोदितम् ॥ २३ ॥