पृष्ठम्:मथुराविजयम्.djvu/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

.
तृतीयः सर्गः ।
मदान्धकारो हि महानिशीथिनी प्रबोधचन्द्रप्रतिरोधकालिका |
मनोजमत्तद्विपवैजयन्तिका शरीरिणां शश्वदलङ्घिनी दशा ॥ २४ ॥
भवत्यहंकारमहीरुहाङकुरे दयापयश्शोषणदारुणोष्मणि |
तमः प्रदोषे तरुणिम्नि कस्य वा समञ्जसं पश्यति दृष्टिरञ्जसा ॥ २५ ॥
युवानमज्ञातनयागमक्रमं स्वतन्त्रमैश्वर्यमदोद्धतं नृपम् ।
विपत् क्षणेन व्यसनानुबन्धजा क्षिणोति चन्द्रं क्षणदेव तामसी ॥ २६ ॥
अशेषदोषाङ्कुरकुञ्जभूमयो मदान्धचेतोमृगबन्धवागुराः ।
कथं नु विश्वासपदं मनीषिणां मनोजमायाभटशस्त्रिकाः स्त्रियः ॥ २७ ॥
फलोत्तरा भूमिरनत्ययं बलं महार्हरत्नाभरणं च संपदः ।
किमन्यदात्मा च कलत्रपुत्रकैः परार्थमेव ध्रुवमक्षदेविनः ॥ २८ ॥
विना फलं जीवितसंशयप्रदां विनोदबुद्ध्या मृगयां भजेत कः ।
प्रमाद्यतां पार्थिवगन्धहस्तिनामियं हि वारी कथिता विचक्षणैः ॥ २९ ॥
समग्रतारुण्यमदस्य संपदा स्खलद्गतेर्थन्मदिरानिषेवणम् ।
स एष दोषत्रयजे महाज्वरे ग्रहामिभूतस्य भुजङ्गनिग्रहः ॥ ३० ॥
हितानि कुर्वन्नपि नानुरक्तये जनस्य जल्पन् परुषं रुषा नृपः ।
पयांसि वर्षन्नपि किं न भीषणः कठोरविस्फूर्जथुगर्जितो घनः ॥ ३१ ॥
दुनोति दण्डेन दुरुत्सहेन यः प्रसह्य राष्ट्रं पदमात्मसंपदाम् ।
स वृक्षमारुह्य कुठारपातनं करोति मूलोद्दलनाय दुर्मतिः ॥ ३२ ॥
मदादपात्रेषु ददाति मन्दधीर्धनानि धर्मादिकसाधनानि यः ।
निपात्यते तेन मखक्रियोचितं हविश्चितासद्मनि कृष्णवर्त्मनि ॥ ३३ ॥
अथैभिरैश्वर्यशरीरयक्ष्ममिर्हताखिलाङ्गैर्व्यसनैरुपद्रुताः ।
तमः पराभूतनिजौजसो नृपाः प्रयान्ति कालाद् द्विषतामुपेक्ष्यताम् ॥ ३४ ॥