पृष्ठम्:मथुराविजयम्.djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः ।
अथोरगाणामधिपाय भाविनं भुवो भरस्यापगमं दिनेश्वरः ।
निवेदयिष्यन्निव गाढरंहसा रमेज पातालगुहामगाहत ॥ ४६ ॥
अथ नृपसुतः सान्ध्यं निर्माय कर्म सभां गतः
क्षणमिव गुरोराज्ञां राज्ञां गणाय निवेद्य सः ।
विमतविजयव्यग्रोत्साहान् विहाय गृहाय ता-
नरमत सुखी शय्यागेहे सरोजमुखीसखः ॥ ४७ ॥
इति [ श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीरकम्परायचरिते*]
तृतीयः सर्गः ।
अथ चतुर्थः सर्गः |
अन्येद्यरथ राजीववनजीवनदायिनि ।
लोकैकदीपे भगवत्युदिते भानुमालिनि ॥ १ ॥
विहाय निद्रां विधिवन्निर्मिताहर्मुखक्रियः ।
आदिक्षत् पृतनाध्यक्षान् सेनासन्नहनाय सः ॥ २ ॥
अथ मन्दरसंघट्टक्षोभिताम्भोधिमण्डलः |
रराण कोणाभिहतो रणनिर्याणदुन्दुभिः ॥ ३ ॥
कल्पान्तोद्धान्तचण्डीशडमरुध्वानडामरः ।
उदजृम्भत गम्भीरो वियदध्वनि तद्ध्वनिः ॥ ४ ॥
प्रायो भयद्रुतामित्रपदविध्वंसनोत्सुकः ।
स जगाहे प्रतिध्वाननिभादवनिभृद्गुहाः ॥ ५ ॥
तस्मिन् विसर्पति त्रासमीलिताशेषलोचनः ।
शेषो युगपदज्ञासीदान्ध्यबाधिर्ययोर्दशाम् ॥ ६ ॥