पृष्ठम्:मथुराविजयम्.djvu/४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

१८
मधुराविजये
आबद्धकुथमातङ्गमात्तपर्याणसैन्धवम् ।
संवर्मितभटं सद्यः समनह्यत तद्बलम् ॥ ७ ॥
विशङ्कटकटाघाटविगलन्मदनिर्झराः ।
परश्शतं जघटिरे विकटाः करिणां घटाः ॥ ८ ॥
समीरणरयोदग्रा वल्गन्तः फेनिलैर्मुखैः ।
तुरङ्गाः सैन्यजलभेस्तरङ्गा इव रेजिरे || ९ ॥
कृपाणकर्पणप्रासकुन्तकोदण्डपाणयः |
समगच्छन्त सहसा नैकदेश्याः पदातयः ॥ १० ॥
प्रस्थानोचितमाकल्पं बिभ्राणा बाहुशालिनः ।
राजन्यास्तोरणाभ्यर्णे नृपालं प्रत्यपालयन् ॥ ११ ॥
सेनासरित्सिताम्भोजैर्जयश्रीकेलिदर्पणैः ।
अस्तावकाशमाकाशमातपत्रैरजायत ॥ १२ ॥
विजृम्भमाणे प्रस्थानशारदारम्भ भ्रमे ।
नृपाणां चामरालीभिर्मरालीभिरभूयत ॥ १३ ॥
नृपमौलिमणिच्छायामञ्जरीपुञ्जरञ्जिताः ।
अत्याक्षुरौरसीं रक्तिं न जातु रविरश्मद्यः ॥ १४ ॥
उत्तुङ्गैर्ध्वजसंघातैर्निरुद्धे गगनाध्वनि ।
निनाय कृच्छ्रात् पातङ्गं शताङ्गं गरुडाग्रजः ॥ १५ ॥
पोषितो हयहेषाभिर्बृंहितो गजबृंहितैः ।
वर्धितस्तूर्यनिध्वानैः कोऽपि कोलाहलोऽभवत् ॥ १६ ॥
ततो धृतसमायोगः समयज्ञो महीपतिः ।
हितैः पुरोहितैर्यात्रामुहूर्त प्रत्यवैक्षत ॥ १७ ॥