पृष्ठम्:मथुराविजयम्.djvu/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

. चतुर्थः संगः ।
तमसूचयदाप्तेभ्यो दक्षिणं दक्षिणो भुजः ।
स्फुरितैर्भाविवीरश्रीपरिरम्भमहोत्सवम् ।। १८ ।।
अथर्ववेदिनो विप्रास्तं विशेषैर्जयाशिषाम् ।
अवर्धयन् मन्त्रपूतैर्हविर्भिरिव पावकम् ॥ १९ ॥
अथ निर्गत्य भवनादवैक्ष्यत महीक्षिता |
धारितस्तोरणाभ्यर्णे तुङ्गस्तुरगपुङ्गवः ॥ २० ॥
सपक्ष इव तार्क्ष्यस्य सजातिरिव चेतसः ।
सखेव गन्धवाहस्य संघात इव रंहसः ॥ २१ ॥
अपर्याप्तामतिक्रान्तचेतोवृत्ते: स्वरंहसः ।
विस्तारयन्निव महीं चटुलैः खुरघट्टनैः ॥ २२ ॥
जवाधरितजम्भारितुरङ्गभ्रमकारिणम् |
मणिकुट्टिमसंक्रान्तमाक्रामन् बिम्बमात्मनः ॥ २३ ॥
लवणोदन्वदेकान्तलङ्घनामात्रगर्वितम् ।
हसन्निव हनूमन्तं हेषितैः फेनपाण्डरैः ॥ २४ ॥
मुखलीनखलीनाहिरच्छपल्ययनच्छदः ।
वपुषापि गरुत्मन्तमनुगन्तुमिवोत्सुकः ॥ २५ ॥
लोलवालाग्रलग्नेन सेव्यमानो नभस्वता |
रंहोरहस्यशिक्षार्थं शिष्यतामिव जग्मुषा ॥ २६ ॥
मुहुः स्वजवसंरोधनमितोन्नमिताननः ।
नमस्कुर्वलिव पुरोवर्तिनीं विजयश्रियम् ॥ २७ ॥
खुरधूतघराधूलिस्थलीकृतनमस्स्थलः ।
वारयन्निव रथ्यानां रवेः खेचरतामदम् ॥ २८ ॥

(नवभिः कुलकम् ।)