पृष्ठम्:मथुराविजयम्.djvu/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः ।
ततः कम्पनरेन्द्रस्य भटैर्भुजबलोत्कटेः ।
पलायत पराभूता द्रमिडेन्द्रवरूथिनी ॥ ६२ ॥
उल्लङ्घ्योल्लङ्घय धावद्भिर्भीत्या भ्रंशितमायुधम् ।
प्रायः प्रथनसंन्यासे शपथ: कैश्चिदादधे |॥ ६३ ॥
हतानुकारिणः केचित् क्षितौ निपतितास्ततः ।
क्रोष्टुर्भयेन धावन्तः कर्णाटान् पर्यहालयन् ॥ ६४ ॥
विक्षेप्तुं विस्मृतैश्चर्मफलकैर्निर्मितप्लवाः ।
मृषैव केचिदतरन् मृगतृष्णातरङ्गिणीः ॥ ६५ ॥
छायामेवात्मनः केचिद् धावन्तो भौतिभाविताः ।
अरातिशया कष्टं दष्टाङ्गुलि ववन्दिरे || ६६ ॥
अथ तस्य पुरीमेव नीत्वा शिबिरतां नृपः ।
अचलं राजगम्भीरमरुन्ध द्विषदाश्रितम् || ६७ ॥
तद्दुन्दुभिप्रतिध्वानमुखरै कन्दरामुखैः ।
भयादमन्दमाक्रन्दमकार्षीदिव पर्वतः ॥ ६८ ।।
प्रवाताभिमुखाधूतैः पताकापाणिपल्लवैः ।
आरोहणाय राजेन्द्रमाजुहावेव भूधरः ॥ ६९ ।।
अथ प्रववृते युद्धं सैन्ययोरुभयोरपि ।
पतदुत्पतदस्त्रांशुज्वलितोर्वीनभस्थलम् ॥ ७० ॥
भ्रश्यत्तालफलाकारैः प्राकाराद् बाणपातितैः ।
रणश्रीकन्दुकभ्रान्तिर्विदधे वीरमूर्धभिः ॥ ७१ ।।
अग्रे निपेतुर्नृपतेर्मावाणो यन्त्रविच्युताः |
दुर्गेणातरदानार्थं दूताः संप्रेषिता इव ॥ ७२ ॥
२३