पृष्ठम्:मथुराविजयम्.djvu/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४
मधुराविजय

धानुष्कमुक्तबाणाग्गिज्वलितोर्ध्वगृहावलिः
विजयारात्रिकं तस्य मूर्घ्नेवाद्रिरधारयत् ॥ ७३ ॥
विन्यस्तकुन्तनिश्रेणीश्रेणिविरपुङ्गत्रैः ।
आक्रान्तसालशृङ्गाग्रेरुह्यत महीधरः || ७४ ॥
अथोद्भटभटक्ष्वेडागलितभ्रूणगार्मिणद् |
निहतास्रनदीमज्जजनताशास्यजीवितम् ॥ ३५ ॥
..........................।
अलब्धनिर्गमं दुर्गमासीदेवमुपद्रुत ॥ ७६ ॥
( युग्मकम् ।)
निर्जगाम निजागाराच्चम्पक्ष्मापोऽपि कोपनः ।
कृपाणपाणिर्वल्मीकाजिह्वाल इव द्विपम् ॥ ७७ ।।
अहंपूर्विकया वीरेष्वभितो युद्धकाङ्क्षिषु ।
प्रत्यग्रहीन्महीपालश्चम्पं सिंह इव द्विपम् ॥ ७८ ॥
तौ निकुञ्चितपूर्वाङ्गौ निश्चलाक्षी कृपाणिनौ ।
उचितस्थानकावास्तां चिमन्यस्ताविव क्षणम् ॥ ७९ ॥
कक्ष्याविभक्तवपुषोश्चारीभिश्चरतोस्सयोः |
पश्यद्भिः सौष्ठवं देवैरनिमेषत्वमादृतम् ॥ ८० ॥
अन्तर्बिम्बितचम्पेन्द्रा कम्पेन्द्रस्यासिपुत्रिका |
अप्सरोभ्यः पतिं दातुमन्तर्वन्ती किलाभवत् ॥ ८१ ॥
अथ वश्चित [ तत् ] खड्गप्रहारः कम्पभूपतिः ।
अकरोदसिना चम्पममरेन्द्रपुरातिथिम् ॥ ८२ ॥