पृष्ठम्:मथुराविजयम्.djvu/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

पंञ्चमः सर्गः ।
इत्थं सङ्गरमूर्ध्नि चम्पनृपतिं नीत्वा कथाशेषतां
श्रीमान् कम्पनृपेश्वरो जनयितुः संप्राप्तवाञ्छासनम् ।
काञ्चीन्यस्तजयप्रशस्तिरमिथस्संकीर्णवर्णाश्रमं
नीत्या नित्यनिरत्ययर्द्धिरशिवत् तुण्डीरभूमण्डलम् ॥ ८३ ॥
इति [श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीर*]कम्परायचरिते
चतुर्थः सर्गः ।
अथ पञ्चमः सर्गः ।
अथ स तत्र महीतलमण्डने मरतकाह्वयभाजि महापुरे ।
विरचितस्थितिरप्रतिशासनं जगदशेषमरक्षदनाकुलम् ॥ १ ॥
अरिबलापहमाश्रितनन्दनं सुमनसां मनसः प्रियदायिनम् ।
वसुमतीमवतीर्णमिवापरं हरिममंसत तं सततं प्रजाः ॥ २ ॥
प्रथितशक्तिरवाप्तफलोदय: प्रगुणयन् पणबन्धमुखान् गुणान् ।
निपुणधीर्निरपायमुपायवित् प्रभुरभुङ्क्त नवां नयसंपदम् || ३ ||
असुहृदां सुहृदामिव मण्डलेष्वजनि तेन न किञ्चिदलक्षितम् ।
प्रहितचारगणेन विवस्वता प्रसृतदीधितिना भुवनेष्विव ॥ ४ ॥
करपरिग्रहमाचरति प्रभौमृदुतरं मुदितप्रकृतिर्मही ।
विविघसस्यविशेषनिरन्तरा पुलकितेव भृशं समलक्ष्यत ॥ ५ ॥
द्रढिमशालिनि भोगमनोहरे कटकधारिणि दानगुणो [र्जिते* ] |
नृपतिदोष्णि निवासमुपेत्य भूरलघयत् प्रथमास्पदगौरवम् ॥ ६ ॥
नरपतेः प्रतिहारमहीं मुहुर्विजयदन्तिमदोदकपङ्किलाम् ।
क्षितिभुजां भुजभूषणभट्टनप्रसृमरो मणिरेणुरशोषयत् ॥ ७ ॥