पृष्ठम्:मथुराविजयम्.djvu/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

.२६
मधुराविजये
अहरहर्नृपतेः पदपीठिकातटसमुल्लिखितैरलिकस्थलैः ।
पुनरिवार्पितभाग्यमयाक्षरै रजनि वैरमुचामवनीभुजाम् ॥ ८ ॥
मगधमालवसे (मु?वु)णसिंहलद्रमिलकेरलगौ (ल?ड) मुखैर्नृपैः ।
अवसराप्ति परैरनुवासरं रुरुधिरे प्रतिहारभुवः प्रभोः ॥ ९ ॥
परिसरद्वय चामरधारिणीकनककङ्कणरिङ्खणनिस्वनः ।
अशमयन्नृपतेर्बिरुदावलीमुखर मागघमण्डलवैखरीम् ॥ १० ॥
चतुरचङ्क्रमचारुसरस्वतीचरणनू पुरशिञ्जित मञ्जुलैः ।
भृशमरज्यत कम्पमहीपतिः सदसि सत्कविसूक्तिसुधारसैः ॥ ११ ॥
तरलताङ्गुलिताडितवल्लकीनिरतताननिरन्तरितैः स्वरैः ।
जगुरमुष्य जगत्प्रथितं यशो गमकभङ्गितरङ्गितमङ्गनाः ॥ १२ ॥
उचिततालमुदञ्चितविभ्रमं चतुरचारिचमत्कृतसौष्ठवम् ।
मुहुरसायवरोधमृगीदृशां मुखरसोज्ज्वलमैक्षत नर्तनम् ॥ १३ ॥
हततरक्षु परिक्षत सैरिभं मृदितरङ्ङ्क निषूदितसूकरम् ।
ग्लपितखड्गि गृहीतमतङ्गजं वनमसौ मृगयासु मुहुर्व्यधात् ॥ १४ ॥
अथ सुगन्धिहिमान् व्यजनानिलान् मृगदृशः कृतचन्दनचर्चिकाः |
शशिमतीश्च निशाः प्रियतां नयन् नरपतेरुदभूद् ऋतुरूष्मलः ॥ १५ ॥
विकचपाटलंगन्धिसमीरणैः सलिल केलिपरायणयौवतैः ।
रजनिदैर्ध्यहरैरधिकोल्लसद्रविमहोभिरहोभिरभूयत ।। १६ ।।
नियतिनिर्मितदक्षिण दिग्वधूविरहतापनिवारणवाञ्छया ।
अहिमभानुरहन्यहनि ध्रुवं हरितमाप हिमाचलशीतलाम् ॥ १७ ॥
परुषतापविशेषपरिस्खलद्रथतुरङ्गममन्दगताविव ।
अहिमधाम्नि रथाङ्गसुखावहामहरगा [हत दै*]र्ध्यक्ती दशाम् ॥ १८ ॥