पृष्ठम्:मथुराविजयम्.djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः ।
सरसचन्दनधारिषु मौक्तिक त्रिसरनिर्झरहारिषु सुभ्रुवाम् ।
कुचतटेषु निदाघनिपीडितो धृतिमघात् कुसुमायुषकुञ्जरः ।। १९ ।।
सलिलकेलिकुतूहलकुन्तलीकुचतटाहतिजातभयैरिव ।
अपसृतैरजनि प्रतिवासरं नृपतिगेहविहारसरोजलैः ॥ २० ॥
प्रचुरघर्मपयः कणजालिकागुणितमौक्तिकमण्डनशालिभिः ।
नवशिरीषवतंसमनोहरैः सुवदना बदनैस्तममोदयन् ॥ २१ ॥
दिनविरामविकस्वरमल्लिकाकुसुमसौरभहारिषु सुभ्रुवाम् ।
कचभरेषु निवेशयतो मुखं नरपतेर्न वितृष्णमभून्मनः ॥ २२ ॥
हिमगृहेषु निरन्तरशीकरप्रकरदर्शिततारकपङ्क्तिषु ।
दिवसतापमहापयदायतं वरवधूसहितो वसुधाधिपः ॥ २३ ॥
अथ दलन्निचुलद्रुममञ्जरीनिचयदर्शितचामरविभ्रमः ।
कृतनुतिः किल चातकयाचकैर्नृपतिमन्वगमज्जलदागमः ॥ २४ ॥
तत इतो विहरतटिदङ्गनाललितलास्यहरिन्माणिमण्डपैः।
पटुमृदङ्गरवोपमगर्जितैर्निबिडमाविरभूयत वारिदैः ॥ २५ ॥
स्फुटतटित्तपनीयगुणोज्ज्वलैः पृथुपयः कणमौक्तिकसङ्गिभिः ।
अलिकदम्बकसच्छविभिर्दिशामसितकञ्चुलिकायितमबुदैः।। २६ ॥
हरितलोहितपाण्डुरराजत त्रिदशराजशरासनलेखिका ।
मरतकोपलविममौक्तिकैर्विरचिता रशनेव नमरिश्रयः ॥ २७ ॥
रुधिरबिन्दुनिभच्छवेिरन्यगात् क्षितितले हरिगोपपरम्परा |
घनघरट्टपरस्परघट्टनक्षरदिरम्मदवह्निकणावलिम् ॥ २८ ॥
पटुपुरः पवनाधिगतामा जलमुचः करकोपलकैतवात् ।
सकिलराशि हचूषितामुदवमन्निवं मौक्तिकसंहतिम् ॥ २९ ॥