पृष्ठम्:मथुराविजयम्.djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८
मधुराविजये
अभिमते सति वारिघरोदये मधुरषड्जमनोहरगीतिभिः ।
गिरितटीषु मुहुः परिमण्डलीकृतकलापमनर्ति शिखण्डिभिः ॥ ३० ॥
पटुतटिद्गणकोणहताः पुरो रतिपतेः पटहा इव दिव्यकाः ।
निशमिताः स्फुटसाहसमध्वगैर्जलघरा वियदध्वनि दध्वनुः ॥ ३१ ॥
दलितकन्दलमुच्छ्वसदर्जुनं स्फुटकदम्ब मुदश्चितकैतकम् ।
मुदितचातकमुन्मुखबर्हिणं कतिचिदास दिनानि वनान्तरम् ॥ ३२ ॥
करतलैरिव गन्धवहैर्घनाः प्रहितकैतकपांसुविभूतयः ।
स्तनितहुंकृतिभिर्निरकासयन् नृपतियौवतमानमहाग्रहम् ॥ ३३ ॥
चलितबर्हिणचन्द्रकचित्रितैः सुरभिगन्धिशिलामदशालिभिः ।
विकचनीपवनैर्नृपतेर्मनो मुहुरहारि विहारमहीधरैः ॥ ३४ ॥
तमहरन्नहरत्ययमालतीकुसुमदन्तुरकुन्तलकान्तयः ।
परिहितागरुधूपितवाससः सुतनवो मृगनाभिसुगन्धयः ॥ ३५ ॥
मणिमयानि गृहाणि समीरणाः कुटजकैतक सौरभवाहिनः ।
मदकलाश्च गिरः प्रचलाकिनां क्षितिपतेः स्मरदीपकतां ययुः ॥ ३६॥
नववधूपरिरम्भणदोहलान्यनुपदं निनदैः प्रतिपादयन् ।
अलभत क्षणदासु घनागमो नरपतेः किल नर्मसुहृत्पदम् ॥ ३७॥
तदनु पद्मवनीपरिहासकस्त्रिदशनाथशरासनतस्करः ।
भुजगभुङ्मुखमुद्रणभौरिकः समुदभूत् समयो जलदात्ययः ॥ ३८ ॥
विधुतकाशसटाभरभासुरः प्रकटितोरुजपारुणलोचनः ।
व्यघटयद् घनदन्तिघटाः स्फुरद्रविमुखः शरदागमकेसरी ॥ ३९ ॥
अवितथं रजनी दिवसाधिपौ मधुरिपोर्नयने इति भाषितम् ।
स्फुटममुष्य यतः स्वपनात्ययादजनि तादृशमुन्मिषितं तयोः ॥ ४० ॥