पृष्ठम्:मथुराविजयम्.djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

पश्चमः सर्गः ।
कलशजस्य मुनेरुदयाज्जहु कलुषतां सलिलानि महौजसः ।
सदुपदेशवशादिव शासितुस्तनुभृतां हृदयानि दयानिधेः ॥ ४१ ॥
विशदशारदनी रदशारितं वियदलक्ष्यत वीततटिद्गणम् |
प्रकटफेनकदम्बककर्बुरं जलभिवाम्बुनिधेर्गतविद्रुमम् ॥ ४२ ॥
नियतमम्बुदशाणनिघर्षणाद तिमहस्कमहस्कर मण्डलम् I
अजनि वर्षविधोरपि वार्षिकैर्जलधरैः परिधौतमिवोज्ज्वलम् ॥ ४३ ॥
जलदकालकलिस्फुरितां शनैः कलुषतां प्रशमय्य कृशाः पुनः ।
घटयति स्म शरत् तटिनीसखी रुपनतैः कलहंसविलासिभिः ॥ ४४ ॥
सरसिजाकर सञ्चरदिन्दिरा चरणहंसकनिक्वणमन्थरः ।
मदनमङ्गलतूर्यरवोऽभवन्मदकलः कलहंसकुलध्वनिः ॥ ४५ ॥
विकचपद्मविलोचनमात्मनो मुखमवेक्षितुमात्तकुतूहला ।
नियतमभ्रनिचोलकर्गर्भतः शरदकर्षद हर्पतिदर्पणम् ॥ ४६ ।।
विलसदुत्पललोचनशालिनी: स्फुरितचन्द्रमुखी: कुमुदस्मिताः ।
नरपतिः स्फुटतारकहारिणीर्निरविशद् दयिता इव यामिनीः ॥ ४७ ॥
परिणतेक्षुपरिच्युत मौक्तिकग्रथितहारमनोहरमूर्तिभिः ।
विशदमस्य यशो नृपतेः कलं कलमगोपवधूमिरगीयत ॥ ४८ ॥
दलदयुग्मदलोदरसौरभप्रसरपक्ष्मलिता वनवायवः ।
मुहुरधःकृतयन्तृनिवारणानकृषत क्षितिभृन्मदवारणान् ॥ ४९ ॥
वनभुवः परितः पवनेरितैर्नवजपाकुसुमैः कृतदीपिकाः ।
प्रथममेव नृपस्य निदेशतो विजयिनस्तुरगान् निरराजयन् ॥ ५० ॥
अथ नृपस्य समुत्सुकचेतसो [मदन*]कोलकलासु विलासिनः ।
प्रियमिवा[चरितुं*] समुपागमत् प्रणदयन् (?) क्षणदास्तुहिनागमः ॥५१॥