पृष्ठम्:मथुराविजयम्.djvu/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः ।
मधुसुगन्धि रजः सहकारजं मलयशैलसमीरणमान्त्रिकाः |
प्रणयरोषपराङ्मुखमानिनी हृदय संवननार्थमिवाकिरन् । ६३ ।।
उपवनेष्वगमन्नुपमेयतां स्फुटरुचो नवकिंशुककुट्मलाः ।
मथितपान्थमृगक्षतजारुणैर्मदन केसरिणः कुटिलैर्नखैः ॥ ६४ ॥
चटुलषट्पदकज्जलपातिनी विरुरुचे नवचम्पकमञ्जरी ।
प्रकटितेव हिमापममश्रिया स्मरमहोत्सवदीपपरम्परा ।। ६५ ।।
मधुनि मुग्धदृशां मुखसंस्तवात् तदनुषङ्गितया बकुलेषु च ।
मरुति चैतदनुाण[सौह्य* ] दात् समुचितोऽजनि सौरभसङ्क्रमः ॥ ६६ ।।
कणितनूपुरकुन्तलकामिनीचरणपङ्कजसङ्गवशादिव ।
मुखरभृङ्गमशोकमहीरुहै स्तदनुरूपमधार्यत पल्लवम् ।। ६७ ।।
वरवधूपरिरम्भरसोल्लसल्ललितकुट्मलकण्ट किताकृतिः ।
कुरवकः कुसुमेषुमचेतनेष्वपि विशृङ्खलवृत्तिमसूचयत् ॥ ६८ ॥
पथिक [सार्थ *]पराक्रमप्णोत्सुकप्रसवकार्मुककाहलनिस्वनः ।
मधुरपञ्चमरागरसाञ्चितो जगदरञ्जयदन्यभृतध्वनिः ।। ६९ ॥
अधिगताभिनवार्तवसम्पदः स्तबकसंजनितस्तनविभ्रमाः ।
भ्रमरकामुक संवननक्षमा वनलता ललितां दधिरे दशाम् ॥ ७० ॥
सुतनवः फलकेषु मधूत्सवे रतिपतिं परिलेखितुमुद्यताः ।
हृदयगोचरतामनिशं गतं हरिहरात्मजमेव समालिखन् ॥ ७१ ॥
[म*]दनबेरनि(भां?भं)निभृतं पुरः क्षितिपतिं कृतचन्दनचर्चिकाः |
अधिकघर्मपयोभिरवागमन् मृगदृशो विकसत्पुलकैः करैः ॥ ७२ ॥
मुखरकङ्कणमाकुलमेखलं चलितहारलतं लुलितालकम्।
अधिगतश्रममस्य वधूजनो रतिविशेषम शिक्षत डोलवा ॥ ७६ ॥