पृष्ठम्:मथुराविजयम्.djvu/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

३२
मधुराविजये
उचितरागविशेषमनोहरे रतिपतेरुपगान विधौ स्त्रियः ।
नृपतिगोत्रकृतस्खलना ययुः प्रियसखीसविधेषु विलक्षताम् ॥ ७४ ॥
क्षितिपतिं किल कुङ्कुममुष्टिना समभिताडयितुं घियमादधौ ।
सपदि धर्मपयःप्रसरेण तं विगलितं न विवेद वधूजनः ॥ ७५ ॥
इति समुपचिताभिश्चातुरीभिर्विशेषान्
ऋतुषु समुपलभ्यान् निर्विशन् निर्विशङ्कम् ।
सुतनुभिरवियोगोत्कण्ठिताभिस्तृतीयं
व्यतनुत पुरुषार्थं कम्पराजः कृतार्थम् ॥ ७६ ॥
इति [ श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीर *] कम्परायचारते
पञ्चमः सर्गः ।
अथ षष्ठः सर्गः ।
अथ वरतनुभिः समं कदाचिद् विरचयितुं कसुमापचायलीलाम् ।
प्रमदवनममर्त्यकामिनी भिर्हरिरिव नन्दनमासदन्नरेन्द्रः ॥ १ ॥
मुखरितमणिमेखलाकलापाः प्रचलितमन्वचलंस्तमायताक्ष्यः |
उपवनलतिका इवोपगीतभ्रमरकुला मलयाद्रिगन्धवाहम् ॥ २ ॥
परिवहदनुरागपूरकल्पैः पदगलितैरथ यावकैर्वधूनाम् ।
सरणिररुणतामतीव नीता समजनि नूतनपल्लवास्तृतेव || ३ ||
विविधविलसितैर्विलासिनीनामसितसितारुणकान्तिभिः कटाक्षैः ।
कुवलयकुमुदारविन्दमालमखचितमिवामलमम्बरं बमासे ॥ ४ ॥