षष्ठः सर्गः ।
अजनयदवनीश्वरस्य चेतस्यसितदृशां मणिनूपुरप्रणादः ।
सहपरिचलितप्रसूनकेतोरवनमदैक्षवचापघोषशङ्काम् ॥ ५ ॥
अवनिपतिमनुप्रतस्थुषीणां हरिणदृशामितरेतरप्रसक्ताः ।
मधुरसमधुरा गिरस्तदानीं बहुविधभङ्गितरङ्गिता बभूवुः ॥ ६ ॥
वरतनु ! परतः प्रयाहि मन्दं हरिणदृशां पुरतः प्रयायिनीनाम् ।
पथि गतिरयशीर्णहारमुक्तामणिगणशर्करिले पदं न कुर्याः ॥ ७ ॥
नलिनमुखि ! न बोधय प्रसुप्तानिह मणिनूपुरशिञ्जितेन हंसान् ।
द्रुतगमनविघातमाचरेयुर्नियतममी तव पादपझलग्नाः ॥ ८ ॥
करनखरमरीचिमञ्जरीभिर्हतहृदयो जलशङ्कया कुरङ्गः ।
अनुपतति विलोकयैकवारं सखि ! नियतं स निवर्तते विलक्षः ॥ ९ ॥
शशिमुखि ! शशिकान्तकुट्टिमेषु स्खलनमिया न पदात् पदं प्रयासि ।
इयमिह वदनानुबिम्बराजिस्तव न पुनर्नवपङ्कजोपहारः ॥ १० ॥
किमिति मृदुपदं प्रयासि मुग्धे ! ननु कितवः सह याति कामिनीभिः ।
नवकुसुमरजोन्धकारबन्धैरभिसरणार्हमिदं वनं दिवांपि ॥ ११ ॥
अथ विदितमियं द्रुता गतिस्ते मुखभवलोकयितुं निवृत्य भर्तुः ।
न किमलमपराङ्गमेव तावद् दयिततनस्य मृगीदृशां मनांसि ॥ १२ ॥
स्तनजघनभरं तवालि ! जाने तदपि गतिस्त्वरया त्वया विधेया |
न कलयसि निरन्तरं निषेव्या युवति जनैर्बहु* ....पतन्ति ।
मदनसुभटवारणास्त्रशङ्कां मनसि चकार चकोरलोचनानाम् ॥ ५५ ॥
करयुगकलितप्लवः प्रियाणां परिचलितोरुनितम्ब मण्डलानाम् ।
........नच्छलादकार्षीत् सुरतगुरुः पुरुषायितोपदेशम् ॥ ५६ ॥
- तालपत्रादर्श इत ऊर्ध्वे ४१ लोका न हृश्यन्ते ।